बध्नातु वेदस्यानुवक्तवै मेधायै श्रद्धाया अनूक्तस्यानिराकरणाय ब्रह्मणे ब्रह्मवर्चसाय"
इति कुमाराय कृष्णाजिनमुपरिष्टाल्लोमोर्ध्वग्रीवमुत्तरीयं करोति ।
रौरवं राजन्यस्य वस्ताजिनं वैश्यस्य । प्रावरणपर्याप्तोत्तरीयार्थाजिनालाभेऽष्टाचत्वारिंशदङ्गुलं चतुरङ्गुलविस्तीर्णं त्र्यङ्गुलविस्तीर्णं वाऽजिनं गृहीत्वा परिषीवणार्थं किंचिदधिकं गृहीत्वाऽष्टाचत्वारिंशदङ्गुलपरिमाणाविरोधेन परिषीव्य तत्परिमण्डलमजिनमुत्तरीयं कारयेत् । तत्र संस्कार्याङ्गुलैरष्टाङ्गुल एकः खण्डः षोडशाङ्गुलो द्वितीयश्चतुर्विंशाङ्गुलस्तृतीयः । यदा वास एवोत्तरीयं तदा मन्त्रनिवृत्तिरजिनपदलोपो वा । यत्र यत्र मन्त्रेऽसौशब्दस्तत्र संबुद्ध्यन्तं संस्कार्यस्य शर्मान्तं व्यावहारिकं नाम ग्राह्यम् ।
ततः 'ॐ इन्द्राय त्वां परिददे' इति कुमारं ब्रूूयात् । परिदेहीति कुमारः । अथाऽऽचार्यः 'ॐ परीममिन्द्र ब्रह्मणे महे श्रोत्राय दध्मसि । अथैनं जरिमाणये ज्योक्छ्रोत्रे अधिजागरत्' इति ब्राह्मणकुमारमिन्द्राय परिददाति । कुमारमालभ्य मन्त्रं ब्रवीतीत्यर्थः । उत्थाप्य संस्पृश्य मन्त्रवचनं परिदानमिति गृह्यकारिकाकृत् । श्रोत्रशब्दस्थाने राष्ट्रशब्दः क्षत्त्रियकुमारपरिदाने पोषशब्दो वैश्यकुमारपरिदाने ।
अथाग्रेणाग्निं कुमारं दक्षिणतो नीत्वाऽपरेणाग्निमुदङ्मुखमुपवेश्य 'ॐ त्वयि मेधां त्वयि प्रजां त्वय्यग्निस्तेजो दधातु । त्वयि मेधां त्वयि प्रजां त्वयीन्द्र इन्द्रियं दधातु । त्वयि मेधां त्वयि प्रजां त्वयि सूर्यो भ्राजो दधातु' इति त्रिभिर्हुतोच्छेषमाज्यं सर्वमर्धं वा सकृत्कुमारं प्राशयति । त्रयाणामन्ते प्राशनम् । यदा सर्वस्य प्राशनं तदा सप्तपलाशसमिधामभ्याधानार्थं लौकिकाज्येनाभ्यञ्जनम् । परिध्यञ्जनप्रायश्चित्तहोमयोः कर्तव्यतायामन्यदाज्यं पूर्ववत्संस्कृत्य तेनोभयं कार्यम् । यदा त्वर्धस्य प्राशनं तदाऽवशिष्टेन तेनैवाभ्यञ्जनं परिध्यञ्जनप्रायश्चित्तहोमौ च ।
अथवा हुतोच्छेषमाज्यमल्पीयसि लौकिके दध्नि सर्वमर्धे वाऽऽनीयाऽऽलोडनेन पृषद्गुणकं कृत्वा तत्प्राशयेदेतैरेव मन्त्रैः । हुतोच्छेषाज्येऽल्पं दध्यानीय पृषदाज्यं कर्तव्यमित्येवं तु न भवति । तृतीयमाज्यस्य दधन्यानीयेति पृषद्गुणस्वार्थं पशुसूत्रे दृष्टस्य दध्यधिकरणकाज्यानयनविधेरेवात्र ग्रहीतुमुचितत्वात् ।