ततो योगे योग इत्यस्याग्निरिन्द्रो गायत्री । इममग्न आयुष इत्यस्य विश्वे देवा अग्निवरुणसोमादितिविश्वदेवा भूरिक्त्रिष्टुप् । कुमारसमीक्षणे विनियोगः-- 'ॐ योगे योगे तव० मूर्तये' 'इममग्न आयुषे० थासत्' इति द्वाभ्यां प्राश्नन्तं कुमारं समीक्षते ।
अथवा हुतोच्छेषमाज्यं पृषदाज्यं वाऽऽभ्यां मन्त्राभ्यां प्राशयति । अस्मिन्पक्षे त्वयि मेधामिति मन्त्रत्रयस्य समीक्षणस्य च लोपः । ततः कुमारः प्राशनाङ्गमाचमनं कुर्यात् । हुतोच्छेषाज्यनाशे प्राशनाभावः । प्राशनाभावादाचमनस्याप्यभावः । आज्यान्तरं तत्स्थान उपादाय तत्प्राशनीयमिति केचित् ।
अथाऽऽचार्य आचान्तं कुमारमात्मानमुपस्पर्शयित्वा(र्श्य) 'ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषताऽऽयुर्गन्तोः' इति कुमारमभिमन्त्रयते ।
अथ कुमार आचार्यं ब्रह्माणं च बहिष्कृत्य पात्रसहितमग्निं प्रदक्षिणं परिक्रामति । आचार्यः ॐ आ[१]गन्त्रा समगन्महि प्राप्तमृत्युं युयोतन । अरिष्टाः संचरेमहि स्वस्ति च[२]रतादिह स्वस्त्या गृहेभ्यः' इत्यासीन एव प्रदक्षिणमग्निं परिक्रामन्तं कुमारमभिमन्त्रायते-- 'ॐ ब्रह्मचर्यमागामुप मा नयस्व ब्रह्मचारी भवानि देवेन सवित्रा प्रसूतः' इति कुमारं वाचयति ।
को नामासीति कुमारं पृच्छति । अथ कुमारः स्वस्य शर्मान्तं व्यावहारिकं नाक्षत्रं च नामाऽऽचष्टे । यथा देवदत्तशर्मा कार्तिकोऽस्मीति । अथाऽऽचार्यः । 'ॐ स्वस्ति देव सवितरहमनेन देवदत्तशर्मणा कार्तिकेनोदृचमशीय' इति कुमारस्य नामनी गृह्णाति ।
शं नो देवीरित्यस्य प्रजापतिरापो गायत्री । मार्जने विनियोगः । 'ॐ शं नो देवी० तु नः' उभावद्भिर्मार्जते । उभयोर्मन्त्रः ।
अथ प्रधानोपनयनम् ।
अथाऽऽचार्यो ज्योतिर्विदं संपूज्याग्नेर्दक्षिणतः प्राङ्मुख उपविश्याग्नेराग्नेय्यां दिशि स्वपुरोभाग आत्माभिमुखं कुमारमुपवेश्योभयोर्मध्ये ज्योतिर्विदा स्वस्तिकेनाङ्कित उदग्दशेऽन्तःपटे धृते ब्राह्मणैर्मङ्गलसूक्तपद्यपाठे च क्रियमाणे स्वकुलदेवतादीनां चिन्तनं पटस्थस्वस्तिकावलोकनं च कुर्व