पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२१०

पुटमेतत् सुपुष्टितम्
२०६
[उपनयनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता-
( प्रधानोपनयनम् )
 

न्नासीत । एवं कुमारोऽपि । अथवा स्वस्थानस्थितावेवोभौ । अस्मिन्पक्षे प्राग्दशोऽन्तःपटः ।

 तत आचार्यो ज्योतिर्विदां सुलग्नसमयेऽन्तःपट उदक्प्राग्वा निष्काशिते तत्रस्थ एव कुमारस्योपनयनं कुर्यात् । तच्चेत्थम् । कुमारस्य दक्षिणमंसं स्वदक्षिणेन हस्तेन सव्यहस्तेन सव्यमंसं तूष्णीं किंचिदन्वारभ्य, समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । गायत्र्या विश्वामित्रोऽग्निश्च सविता गायत्री । देवस्य त्वेत्यस्य वामदेवः सविता यजुः । कुमारस्योपनयने विनियोगः । 'ॐ भूर्भुवः सुवः' 'ॐ तत्सवितुर्व० प्रचोदयात्' 'ॐ देवस्य त्वा स० हस्ताभ्यामुपनयेऽमुकशर्मन्' इति कुमारस्य दक्षिणं बाहुमात्मन आभिमुख्येनाऽऽनीय समासीनः कुमारमुपनयते कुमारं स्वसमीपे संमुखं करोतीत्यर्थः । इदं प्रधानो[१]पनयनमाचार्यः कर्ममध्ये न विस्मरेत् । विस्मरणं चेदखिलं कर्माऽऽवर्तनीयं मातृदत्तोक्तेः । प्रधानत्वादिति भावः । अग्नेर्दक्षिणत उपनयनक्रियापक्ष उभावत्र स्वे स्वे स्थान उपविशतः । अत्र 'ॐ ये यज्ञेन दक्षिणया समक्ता अग्ने तेजस्विन्' इत्याद्या आशिषो दद्युराचारात् ।

 अथाऽऽचार्यः-- 'ॐ अग्निष्टे हस्तमग्रभीत्सोमस्ते हस्तमग्रभीत्सविता ते हस्तमग्रभीत्सरस्वती ते हस्तमग्रभीत्पूषा ते हस्तमग्रभीद्बृहस्पतिस्ते हस्तमग्रभीन्मित्रस्ते हस्तमग्रभीद्वरुणस्ते हस्तमग्रभीत्त्वष्टा ते हस्तमग्रभीद्धाता ते हस्तमग्रभीद्विष्णुस्ते हस्तमग्रभीत्प्रजापतिस्ते हस्तमग्रभीत्' [ इति ] कुमारस्य दक्षिणं हस्तं साङ्गुष्ठं दक्षिणेन हस्तेन गृह्णाति । 'ॐ सविता त्वाऽभिरक्षतु मित्रस्त्वमसि धर्मेणाऽग्निराचार्यस्तव देवेन सवित्रा प्रसूतो बृहस्पतेर्ब्रह्मचारी भवामुकशर्मन्नपोऽशान समिध आधेहि कर्म कुरु मा दिवा स्वाप्सीः' इति कुमारं संशास्ति । संशासनं शिक्षणम् । अपोऽशानेत्याचमनाद्युपलक्षणम् । मूत्रोत्सर्गादौ निमित्ते शौचान्ते विधिनाऽऽचमनं कुरु । समिध आधेहि यावद्ब्रह्मचर्यं सायंप्रातः सायमेव वाऽग्निकार्यं कुरु । कर्म कुरु संध्योपासनादिकं गुरुशुश्रूषावेदाध्ययनादिकं च कर्म कुरु । मा दिवा स्वाप्सीः । दिवा निद्रां मा कुर्वित्यर्थः । बाढमिति कुमारोऽङ्गी कुर्यात् ।

 अथाऽऽचार्यो दक्षिणेन हस्तेन कुमारस्य तूष्णीं दक्षिणांसस्योपरि सामीप्येन पृष्ठतः प्रवेश्य क्रमेणावाचीनमभिमृश्य 'ॐ मम हृदये हृदयं ते अस्तु, मम


  1. क. ख. यनं ब्रह्मचारी न ।