ततो ब्रह्मचार्याचार्यो वा--तच्चक्षुरित्यस्य सोमः सूर्यो यजुः । सूर्योपस्थाने विनियोगः । "ॐ तच्चक्षुर्देव० दृशे" इति सूर्यमुपतिष्ठते । अथाऽऽचार्यः 'ॐ अग्निष्ट आयुः प्रतरां कृणोत्वग्निष्टे पुष्टिं प्रतरां दधात्विन्द्रो मरुद्भिरिह ते दधात्वादित्यस्ते वसुभिरादधातु' [ इति ] कुमाराय पूर्वासादितमूर्ध्वाग्रं दण्डं प्रदाय तूष्णीं पूर्वासादितमरिक्तं भिक्षापात्रं प्रदाय भिक्षाचर्यं चरेति प्राह । ततो ब्रह्मचार्योमित्युक्त्वा प्रथमं मातरं भिक्षेत तदभावे मातृस्थानीयामन्यामप्रत्याख्यायिनीं 'भवति भिक्षां देहि' इति । ततो मित्रकुलेषु । तत्र पुमांसं भवान्भिक्षां ददात्विति । तद्भिक्षितं द्रव्यमाहृत्य भैक्ष्यमिदं भो इत्याचार्याय निवेदयेत् । आचार्यस्तत्सुभैक्षमिति प्रतिगृह्णाति । अत्रापि सप्तदशकृत्वोऽपाननमिति केचित् ।
ततो-- 'ॐ यस्य ते प्रथमवास्य हरामस्तं त्वा विश्वे अवन्तु देवाः । तं त्वा भ्रातरः सुहृदो वर्धमानमनु जायन्तां बहवः सुजातम्" [ इति ] कुमारस्य पूर्वनिहितं वासो गृह्णाति ।
अथ त्रिवृदन्नहोमः ।
आचार्यो ब्रह्मचार्यन्वारब्धः समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा त्रिवृदन्नहोमकर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । जातवेदसमग्निमिधमेनेत्यादिप्रसाधनीदेव्यन्तमुक्त्वा प्रधानहोमे, अग्निं त्रिवृदन्नाहुत्या यक्ष्ये, सोमं त्रिवृदन्नाहुत्या यक्ष्ये, अनिमन्नादं त्रिवृदन्नाहुत्या यक्ष्ये, अग्निमन्नपतिं त्रिवृदन्नाहुत्या यक्ष्ये, प्रजापतिं त्रिवृदन्नाहुत्या यक्ष्ये, विश्वान्देवांस्त्रिवृदन्नाहुत्या यक्ष्ये, सर्वा देवतास्त्रिवृदन्नाहुत्या यक्ष्ये, अग्निं स्विष्टकृतं हुतशेषाहुत्या यक्ष्ये, एता देवताः सद्यो यक्ष्य इत्युक्त्वा समित्त्रयमग्नावभ्यादध्यात् । अग्निं स्विष्टकृतं हुतशेषाहुत्या यक्ष्य इत्यनन्तरं वास्तोष्पतिं त्रिवृदन्नबलिना यक्ष्य इति केचिद्वदन्ति ।
ततोऽग्निं परिस्तीर्य मयि गृह्णामि यो नो अग्निरिति द्वाभ्यामात्मन्यग्निं गृह्णीयात् ।
ततो ब्रह्मासनकल्पनादि ।
पात्रासादने स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं