सायंसंध्यायाः कालपरिमाणं धर्मसारे--
"उत्तमा सूर्यसहिता मध्यमा लुप्ततारका । |
स्मृत्यन्तरे--
"प्रातःसंध्यां सनक्षत्रां मध्यमां स्नानकर्मणि । |
स्नानकर्मणीत्यत्र निर्वृत्त इति शेषः । तेन माध्याह्निकस्नानानन्तर[१]मित्यर्थः
संध्याया गौणकालमाह गोभिलः--
"उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् । |
अथ देशः ।
व्यासः--
"गृहे त्वेकगुणा संध्या गोष्ठे दशगुणा स्मृता । |
विष्णुरिति शिवादीनामुपलक्षणम् । खाते देवखाते ।
शातातपः--
"अनृतं मद्यगन्धं च दिवामैथुनमेव च । |
यदि विहरणाद्यङ्गलोपस्तदा गृह एव संध्याद्वयं कार्यमित्याहात्रिः--
"संध्यात्रयं तु कर्तव्यं द्विजेनाऽऽत्मविदा सदा । |
यद्यपि प्रशस्तत्वाद्बहिरेव संध्यात्रयं कर्तव्यत्वेन प्राप्तं तथाऽपि श्रौतत्वे विहरणस्य प्राबल्यात्तदनुरोधेन सायंप्रातःसंध्ये गृहेऽभ्यनुज्ञायेते ।
भारद्वाजसूत्रव्याख्यातारस्तु सायं संध्यायां विशेषमाहुः--
"आहिताग्निर्गार्हपत्यस्य पश्चात्सायं संध्यामुपासीत" इति । |
- ↑ ग. रमेवेत्य ।