पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२२६

पुटमेतत् सुपुष्टितम्
२२२
[आचमने मन्त्रविशेष इन्द्रियोपस्पर्शनं च]
भट्टगोपीनाथदीक्षितविरचिता-।
( द्विवारमाचमनं, प्राणायामलक्षणम् )
 

 आचमने मन्त्रविशेषमिन्द्रियोपस्पर्शनं चाऽऽह भारद्वाजः--

"देव्याः पादैस्त्रिभिः पीत्वा खानि पश्चादुपस्पृशेत्" इति ।

 देव्या गायत्र्याः ।

 अत्रिणा तु--

"आपो हि ष्ठादिभिर्मन्त्रैस्त्रिभिस्त्रिः प्राशनं चरेत्" इत्युक्तम् ।

 एतच्चाऽऽचमनं द्विवारं कर्तव्यम् ।

 तदुक्तं षट्त्रिंशन्मते--

"होमे भोजनकाले च संध्ययोरुभयोरपि ।
आचान्तः पुनराचामेज्जपहोमार्चनादिषु" इति ॥

 पृथ्वीचन्द्रोदये देवीनन्दिपुराणयोः--

"दाने प्रतिग्रहे होमे संध्यात्रितयवन्दने ।
बलिकर्मणि चाऽऽचामेदादौ द्विर्नान्ततो द्विजः" इति ।

 प्राणायामलक्षणं मनुराह--

"प्रणवं व्याहृतीः सप्त गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते" इति ॥

 याज्ञवल्क्योऽपि--

"गायत्रीं शिरसा सार्धं जपेद्व्यात्दृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः" इति ॥

 अत्र पाठजपशब्दाभ्यां वर्णाभिध्यानमात्रं नोच्चारणं तस्यासंभवात् ।

 स्मृत्यन्तरे--

"शनैर्नासापुटे वायुमुत्सृजेन्न तु वेगतः ।
न कम्पयेच्छरीरं तु स योगः परमो मतः" इति ।

 व्यासः--

"आदानं रोधमुत्सर्गं वायोस्त्रिस्त्रिः समभ्यसेत् ।
ब्रह्माणं केशवं शंभुं ध्यायन्देवाननुक्रमात्" इति ।

 योगयाज्ञवल्क्यः--

"पूरकः कुम्भको रेच्यः प्राणायामस्त्रिलक्षणः ।
नासिकाधृत उच्छ्वासो ध्यातः पूरक उच्यते ।
कुम्भको निश्चलश्वासो रिच्यमानस्तु रेचकः" इति ।