पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२३०

पुटमेतत् सुपुष्टितम्
२२६
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( संध्यायामर्घ्यदानम् )
 

ऋतं चेतितृचं वाऽपि द्रुपदां वा जपेदृचम् ।
दक्षनासापुटेनैव पाप्मानमपसारयेत् ।
तज्जलं नावलोक्याथ वामभागे क्षितौ क्षिपेत्" इति ।

अथार्घ्यदानम् ।

 तच्चाऽऽदित्योपासनं कुर्वन्कुर्यात् ।

 तथा च श्रुतिः--

"उद्यन्तमस्तं यन्तमादित्यमभिध्यायन्कुर्वन्" इति ।

 एतदुपासनमेव प्रधानम् ।

"संध्यामुपासते ये तु सततं संशितव्रताः ।
विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम्" ॥

 इत्यत्रैव फलसंबन्धावगमात् । अत एव रणेऽर्जुनादिभिरङ्गेष्वसामर्थ्यात्सूर्योपासनमात्रं प्रधानमकारि ।

 भारते--

"ते तथैव महाराज दंशिता रणमूर्धनि ।
संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे" इति ।

 अर्घ्यदानं[१] प्रधानमिति केचित्[२] । अङ्गमित्यन्ये ।

 अर्घ्यदानप्रकारमाह व्यासः--

"कराभ्यां तोयमादाय गायत्र्या चाभिमन्त्रितम् ।
आदित्याभिमुखस्तिष्ठंस्त्रिरूर्ध्वमथ तत्क्षिपेत्" इति ।

 अत्र संतत एव पाठो ग्राह्यः । अथ संततामित्यत्राथशब्दः प्राधान्यख्यापनार्थस्तेन संध्योपासनादिषु तृतीय एव पाठो ग्राह्य इति मातृदत्तोक्तेः । जपेऽप्येवम् । धीमहि धिय इत्यनयोः सांतत्ये सस्वरः संधिः । अनवानत्वमात्रं वाऽस्मिन्पाठे द्रष्टव्यम् । हिकारोऽनुदात्तः ।

 आश्वलायनोऽपि--

"ततस्तिष्ठञ्जलं गृह्य प्राङ्मुखोऽञ्जलिना स्मरन् ।
मण्डले सुस्थितं तेजः स्फाटिकज्योतिषा समम् ।
उत्तीर्य तच्च संप्राप्तं दक्षिणेन पथाऽञ्जलिम् ।
व्याहृत्यादि जपेन्मन्त्रं स्मृत्वैवं परितो रवेः ।


  1. घ. ङ. दानमङ्गमि ।
  2. घ. ङ. त् । अर्घ्य ।