पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२३१

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
२२७
संस्काररत्नमाला ।
( संध्यायामर्घ्यदानम्, जलाभावे रजसाऽर्घ्यदानम् )
 

मन्देहान्युध्यतः क्रूरान्निक्षिपेत्तेष्ववञ्जलीन् ।
षोडशाक्षरमन्त्रेण पुनराकृष्य सत्वरः ।
पुनर्जलं गृहीत्वैवं तेजोमन्त्रं च संस्मरन् ॥
एवं त्रिवारमावर्त्य दग्ध्वा तानसुरान्द्विजः ।
मन्त्रेणाऽऽकृष्य तत्तेजः स्थानादौ स्थापयेत्स्मरन् ॥
पूर्ववद्वाममार्गेण स्मृत्वा संस्थाप्य चाऽऽत्मनि ।
प्रदक्षिणं समावर्त्य जलं गृह्याऽऽचमेत्ततः" इति ॥

 स्थानादावाधारमण्डपे स्थितं ज्योतिर्नासादक्षिणरन्ध्रेणाऽऽधारमण्डपादन्तरञ्जलिमागतं मन्देहाख्यराक्षसनाशाय तोयेन सह क्षि[१]प्तं गायत्रीशिरसा नासावामरन्ध्रेण पुनराधारमण्डपे स्थापयामीति भावयेदिति सर्वतात्पर्यार्थः ।

 षोडशाक्षरमन्त्रमाह व्यासः--

"षोडशाक्षरकं ब्रह्म गायत्र्यास्तु शिरः स्मृतम् ।
ओमापो ज्योतिरित्येष मन्त्रो वै तैत्तिरीयके" इति ॥

 प्रणवत्वेनैकमक्षरम् । अन्यथा षोडशाक्षरकं ब्रह्मेत्येतद्विरुध्येतेति । अथवा सुवरित्यस्यैकाक्षरत्वभावनया षोडशाक्षरत्वं द्रष्टव्यम् ।

 जलाभावे रजसाऽर्घ्यं देयम्--

"जलाभावे महामार्गे बन्धने त्वशुचावपि ।
उभयोः संध्ययोः काले रजसा चार्घ्यमुत्सृजेत्" इत्यग्निस्मृतेः ।

 अर्घ्यदाने विशेषः संग्रहे--

"मुक्तहस्तेन दातव्यं मुद्रां तत्र न कारयेत् ।
तर्जन्यङ्गुष्ठयोगे तु राक्षसी मुद्रिका स्मृता ॥
राक्षसीमुद्रिकार्घ्येण तत्तोयं रुधिरं भवेत् ।
जलेष्वर्घ्यं प्रदातव्यं जलाभावे शुचिस्थले ॥
संप्रोक्ष्य वारिणा सम्यक्ततोऽर्घ्यं तु प्रदापयेत् ।
ईषन्नम्रः प्रभाते वै मध्याह्न ऋजुरास्थितः ॥
सूर्यायार्घ्याञ्जलीन्दद्यात्सायं तूपविशेद्भुवि" इति ।


अथ गायत्रीजपः ।

"जपन्नासीत सावित्रीं प्रत्यगा तारकोदयात् ।
संध्यां प्राक्प्रातरेवं हि तिष्ठेदा सूर्यदर्शनात्" इति ।


  1. ग. घ. क्षिप्रं ।