जपसंख्यामाह योगयाज्ञवल्क्यः--
बौधायनोऽपि--
"दर्भेष्वासीनो दर्भान्धारयमाणः सोदकेन पाणिना प्रत्यङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेदपरिमितकृत्वः प्राणायामशो वा शतकृत्व उभयतःप्रणवां ससप्तव्याहृतिकां मनसा वा दशकृत्वः" इति ।
प्रातःसंध्यायां विशेष उक्तस्तेनैव--
"एवमेव प्रातः प्राक्तिष्ठन्" इति । |
प्राणायामशः प्राणायामप्रकारेण । तमेव प्रकारमाह-- उभयतःप्रणवामित्यादिना । अयं च प्रकारो[३] बौधायनीयानामेव न सत्याषाढसूत्रानुसारिणां ज्ञापकसिद्धस्योपनयनोपदिष्टतृतीयपाठस्यैव तैर्ग्रहीतुमुचितत्वात् । उक्तसंख्यात आधिक्यमेवापरिमितशब्दार्थः । न तु ततो न्यूनत्वमपि । "अपरिमितं प्रमाणाद्भूयः" इति कात्यायनेनाधिकस्यैवापरिमितशब्दार्थत्वोक्तेः ।
व्यासः--
"अष्टोत्तरशतं नित्यमष्टाविंशतिमेव वा । |
नारदः--
"सर्वत्रैव प्रदोषेषु[४] गायत्रीमष्टसंख्यया । |
सुमन्तुः--
"अष्टम्यां च चतुर्दश्यां नित्यादर्धं जपेत्सुधीः ॥ |
जपमालोक्ता स्मृत्यन्तरे--
"पर्वभिस्तु जपेद्देवीं माला काम्यजपे स्मृता । |