पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२३६

पुटमेतत् सुपुष्टितम्
२३२
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( मानसजपस्य फलम्, जपे नियमाः )
 

वाचिकस्यैकमेकं स्यादुपांशु शतमुच्यते ।
सहस्रं मानसं प्रोक्तं मन्वत्रिभृगुनारदैः" इति ॥

 ([]मानसजपस्य फलमुक्तं नृसिंहपुराणे--मानसं जपं प्रकृत्य,

"अनेन देवता नित्यं स्तूयमाना प्रसीदति ।
प्रसन्ना विपुलान्भोगान्दद्यान्मुक्तिं च शाश्वतीम्" इति ॥)

 स्मृत्यन्तरे--

"चतुर्विंशत्यक्षरां तु गायत्रीं प्रजपन्त्दृदि ।
सर्वान्वर्णानभिध्यायेद्देवतामर्थमेव च" इति ।

 अक्षरशब्दः स्वरेषु वर्तते । तत्र यद्यपि स्वरास्त्रयोविंशतिरेव गायत्रीमन्त्रे वर्तन्ते तथाऽपि ण्यमित्यत्र भावनया णियमिति स्वरद्वयं ज्ञेयम् ।

 उक्तं च पिङ्गलेन--

"इयादिपूरणः" इति ।

 पाद इत्यनुवर्तते । इयादिः पूरणो यस्य स इयादिपूरणः । आदिशब्देनोवादयो गृह्यन्ते । तत्रायमर्थः--यत्र गायत्र्यादौ छन्दसि पादस्याक्षरसंख्या न पूर्यते तत्रेयादिभिः सा पूरयितव्या । यथा तत्सवितुर्वरेणियं दिवं गच्छ सुवः पतेत्येवमादय इति हलायुधेन व्याख्यातम् ।

 "घृणिरिति द्वे अक्षरे । सूर्य इति त्रीणि । आदित्य इति त्रीणि । एतद्वै सावित्रस्याष्टाक्षरं पद श्रियाऽभिषिक्तम्" ।

 इति श्रुतिरपि साधिकाऽत्रेति ज्ञेयम् ।

 जपे नियममाह शौनकः--

"कृत्वोत्तानौ करौ प्रातः सायं चाधोमुखौ ततः ।
मध्ये संमुखहस्ताभ्यां जप एवमुदाहृतः" इति ।

 स्मृत्यन्तरे--

"हस्तौ नाभिसमौ धृत्वा प्रातः संध्याजपं चरेत् ।
त्दृत्समौ तु करौ मध्ये सायं मुखसमौ करौ" इति ।

 वृद्धमनुः--

"वस्त्रेणाऽऽच्छाद्य तु करं दक्षिणं यः सदा जपेत् ।
तस्य तत्सफलं जप्यं तद्धीनमफलं स्मृतम्" इति ।


  1. धनुश्चिह्नान्तर्गतं क. पुस्तक एव ।