"प्रक्षिप्य चाञ्जलिं सम्यगुदु त्यं चित्रमित्यपि । |
बौधायनेन तु गायत्रीजपानन्तरमेवोपस्थानमत्राप्युक्तम्--
"अप आचम्य दर्भेष्वासीनो दर्भान्धारयमाणः प्राङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा [२]दशावरामथाऽऽदित्यमुपतिष्ठेतोद्वयं तमसस्पर्युदु त्यं चित्रं तच्चक्षुर्देव हितं य उदगादिति" इति ।
एतदेव तैत्तिरीयैः स्वीकार्यम् । इतरशास्त्रापेक्षया बौधायनोक्तस्याभ्यर्हितत्वात् ।
सायंसंध्योपस्थानमपि कौर्मे--
"वारुणीभिस्तथाऽऽदित्यमुपतिष्ठेत्समाहितः" इति । |
वारुण्यश्चेमं मे वरुणेत्याद्याः । यद्यपि वारुणीभिर्वरुणोपस्थानं लिङ्गबलात्प्राप्तं तथाऽपि श्रुतेः प्राबल्यात्तया लिङ्गं बाधित्वाऽऽदित्योपस्थाने मन्त्राविनियुज्यन्त ऐन्द्रीवत्[३] । बौधायनसूत्रोक्तमन्त्रद्वयेनोपस्थानपक्षे सायं रात्रेरुपस्थानं प्रातरह्नः । वस्तुतो रात्र्यहोरूपत्वेनाऽऽदित्यमभिव्यायन्नुप[४]तिष्ठेत । एवं च न बौधायनकूर्मपुराणयोर्विरोधः ।
अथ दिग्द्विक्पत्युपस्थानम् । तत्र नारायणः--
"वारुणीभिस्तथाऽऽदित्यमुपस्थाय प्रदक्षिणाम्[५] । |
यद्यप्येतस्माद्वचनात्सायंसंध्याङ्गता दिग्दिक्पतिनमस्कारस्य प्रतीयते तथाऽपि प्रातःसंध्यायामप्येतद्द्रष्टव्यम् । भगवत्स्मृतौ प्रातःसंध्यायामपि तस्य विहितत्वात् ।
एतच्च नमः प्राच्यै दिशे याश्च देवता इत्याद्यैर्मन्त्रैर्लिङ्गात् ।
नमो गङ्गायमुनयोरिति मन्त्रस्तु गङ्गायमुनान्तरवासिमुनिनमस्कारे लिङ्गाद्विनियुज्यते ।
अत्र वा गायत्र्युद्वासनम्--
"उपस्थायाथवाऽऽदित्यं गायत्रीं तु विसर्जयेत्" । |