क्वचित्संध्याहानिरपि न दोषायेत्याह जमदग्निः--
"राष्ट्रक्षोभे नृपक्षोभे रोगार्तौ भय आगते । |
अथ संध्याकालातिक्रमप्रायश्चित्तम् ।
([१]तत्र स्मार्तप्रायश्चित्तकुतूहले स्कान्दे--
"उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् । |
इदं च श्रान्तपरम् ।
अन्यथा--
"प्रातःसंध्यां सनक्षत्रां नोपास्ते यः प्रमादतः । |
इति कर्मप्रदीपवचनविरोधापत्तेः । प्रातःसंध्यां सनक्षत्रामिति सायंसंध्यां तु सादित्यामित्येतदुपलक्षणमिति पृथ्वीचन्द्रः)।
तत्र यमः--
"प्राणायामत्रयं प्रातः संगवे द्विगुणं चरेत् । |
([२]स्मार्तप्रायश्चित्तकुतूहले संध्याकल्पे तु--
"प्राणायामत्रयं प्रातर्द्विगुणं संगवे स्मृतम् । |
शक्ताशक्तपरत्वेनात्र व्यवस्था । प्रातरादिष्वकरणे सूर्यहत्यां व्रजेत् । सूर्यहत्यां प्राप्नोतीत्यर्थः) ।
यत्तु जमदग्निवचनं--
"संध्याकाले त्वतिक्रान्ते स्नात्वाऽऽचम्य यथाविधि । |
इति तत्प्राणायामाशक्तपरम्[३] । एवं कर्मप्रदीपवचनमपि ।