यत्तु--
"यः संध्यां चैव नोपास्ते अग्निकार्यं यथाविधि । |
इति स्मृतिवचनं तद्बुद्ध्या सकृल्लोपविषयम् ।
यत्तु वसिष्ठवचनं--
"कालातिक्रमणे चैव त्रिसंध्यमपि सर्वदा । |
तदल्पकालातिक्रमविषयम् ।
एकाहाद्यतिक्रमे जमदग्निः--
"एकाहं समतिक्रम्य संध्यावन्दनकर्म तु । |
दैवाद्यदि माध्याह्निकं दिवा न कृतं तदा विशेषः स्मर्यते--
"रात्रौ प्रहरपर्यन्तं दिवाकृत्यानि कारयेत् । |
स्मृतिसंग्रहेऽपि--
"दिवोदिताः क्रियाः कार्या रात्रावपि यथाक्रमम् । |
अवगाहशब्देन निमज्जनरूपं स्नानं निषिध्यते ।
ब्रह्मयज्ञनिषेधस्तु तैत्तिरीयातिरिक्तपरः ।
"ग्रामे मनसा स्वाध्यायमधीयीत दिवा नक्तं वा" |
इति श्रुतौ तैत्तिरीयाणां रात्रावपि तत्कर्तव्यताप्रतिपादनात् । अथवा बहुलं ब्रह्मयज्ञं निषेधयतीयं स्मृतिः । तेन तैत्तिरीयैस्तदतिरिक्तैश्च रात्रौ स्वल्पो ब्रह्मयज्ञः कर्तव्य एव । श्रुतेः साधारण्येन प्रबलत्वेन च सर्वशाखिषु प्रवृत्तेर्निराबाधात्[१] । इदं च शौचाह्नेयर्षिमतेनोक्तम् ।
मध्याह्नसंध्या रात्रावपि कार्या सा चोपस्थानं विना तस्य सौरत्वात् ।
"कुर्वीताऽऽवर्तनीं संध्यां रात्रावपि न दुष्यति । |