सह[१]स्रादौ शतपदस्थाने सहस्र(स्रा)[ दि] पदम्[२] । ततो[३] द्विः सकृ[४]द्वाऽऽचम्य प्राणानायम्य--
उद्वयमित्यस्याग्निर्विश्वे देवा वा सूर्योऽनुष्टुप् । उदु त्यमित्यस्य सोमः सूर्यो गायत्री । चित्रं देवानामित्यस्य सोमो विश्वे देवा वा सूर्यस्त्रिष्टुप् । तच्चक्षुर्देव हितमित्यस्य सोमः सूर्यो गायत्री । य उदगादित्यस्य सोमः सूर्यस्त्रिष्टुप् । ह सः शुचिषदित्यस्य विश्वे देवा अग्निर्वा सूर्यो जगती । सूर्योपस्थाने विनियोगः--"ॐ उद्वयं तम०" "ॐ उद् त्यं जात" "चित्रं देवाना०" "तच्चक्षुर्दे०" "य उदगा०" "ह सः शुचिप०" इत्येतैरूर्ध्वबाहुरादित्यमुपतिष्ठते ।
उत्तमे शिखर इत्यनुवाकमन्त्रयोर्याज्ञिक्यो देवता उपनिषद ऋ[५]षयः सूर्याभिन्ना रुद्ररूपिणी सावित्र्यभिधा संध्या देवता । प्रथमस्यानुष्टुप् । द्वितीयस्य त्रिष्टुप् । घृणिः सूर्य आदित्य इत्यनुवाकमन्त्रयोर्याज्ञिक्यो देवता उपनिषद ऋ[६]षयो रुद्ररूपसावित्र्यभिधसंध्याभिन्नः सूर्यो देवता । प्रथमस्य गायत्री द्वितीयस्य यजुः । संध्याविसर्जने विनियोगः-- "उत्तमे शिखरे० ब्रह्मलोकम्" "घृणिः सूर्य आदि० रोम्" ।
इति संध्यां विसर्जयेत् ।
अन्तश्चरति भूतेष्वित्यादिमन्त्रद्वयस्य याज्ञिक्य उपनिषद ऋ[७]षयः । आत्मा देवता प्रथमस्य द्विपदा गायत्री, द्वितीयस्य यजुः । आत्मोपस्थाने विनियोगः-- "ॐ अन्तश्चर० रोम्" इत्यात्मानमुपतिष्ठते ।
ततः संध्यायै नमः । गुरुभ्यो नमः । मातापितृभ्यां नमः । इत्यभिवाद्य सकृदेव पूर्ववदाचम्य प्राणानायम्य विष्णुं [८]स्मरेत् ।
इति मध्याह्नसंध्या ।
अथ सायंसंध्या ।
पूर्ववदाचमनप्राणायामौ कृत्वा सायंसंध्यां वृद्धां कृ[९]ष्णां कृष्णवस्त्रां कृष्ण