पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२५

पुटमेतत् सुपुष्टितम्
[यज्ञियपात्रलक्षणानि]
२१
संस्काररत्नमाला ।
( स्रुग्लक्षणम्)
 

कर्म कुर्वन्ति । प्रणीताप्रणयनपात्रं चमसः । स च न्यग्रोधजो रौहीतकजो वा चतुरङ्गुलदण्डश्चतुरस्रः षडङ्गुलदीर्घस्त्र्यङ्गुलनिम्नश्चतुरस्रबिलोऽदण्डो वा । अस्मिन्पक्षे परितो व्द्यङ्गुलमवशेष्य सर्वं बिलमेव । रौहीतको वटावान्तरजातिरिति पशुप्रकरणे व्याख्यातारः । यद्यप्यमरेण करञ्जभेदे रौहीतकशब्दप्रवृत्तिरुक्ता तथाऽप्यमरव्याख्यायाम्--

"रोही रोहीतकश्चैत्यवटपादपयोः पुमान्" ।

 इति रामाश्रमोदाहृतकोशान्तराद्वटवाचिताऽपि । यद्यपि न्यग्रोधरोहितकशब्दयोः पर्यायता कोशान्तरात्प्रतीयते तथाऽपि नैयग्रोधान्रौहीतकान्वेति सूत्रे पृथगुपादानाद्वटविशेषपरता रौहीतकशब्दस्य । रोहीतकरोहितकशब्दौ पर्यायौ । वारणजो वा चमसः । "अहोमार्थानि तु वारणस्य" इतिवचनात् । इयं च परिभाषा गार्ह्यकर्मण्यनित्येति ज्ञापयिष्यते च सोमसूत्रव्याख्याने । तथा च विकङ्कताद्यन्यतमयज्ञियवृक्षजान(न्य)पि । मातृदत्तस्तु प्रणीताप्रणयनपात्रं मृन्मयमित्याह । कांस्यपात्रं ब्रह्मवर्चसकामनायामिति केचित् । प्रोक्षणीपात्रं स्रुगाकारं वारणवृक्षजम् । अहोमार्थत्वात् ।

 तत्र स्रुग्लक्षणमित्थं याज्ञिका उपदिशन्ति--

"आयामं पञ्चधा कृत्वा चतुर्धा वाऽग्रतो द्वयोः ।
उपान्त्यः पात्रमित्युक्तो हविराश्रयभावतः ॥
उपान्त्यभागे विस्तारः स्वदैर्घ्येण समो भवेत् ।
सोऽञ्जल्याकृतिरुद्दिष्टो बिलमत्र च वर्तुलम् ।
षडङ्गुलं बाहुमात्र्यां तदर्धेन च निम्नता ।
अरत्निमाने हस्तस्य तलमानं बिलं स्मृतम् ॥
विस्तारार्धेन निम्नं स्यादन्त्यभागेऽथ निर्णयः ।
भागेऽन्तिमे भवेद्ग्रीवा दैर्घ्यार्धेन च विस्तृता ॥
तस्या मुखं हंसमुखं हस्त्योष्ठमुखमेव वा ।
बिलात्प्रणालिका तावत्पर्यन्तार्थानुरूपतः ॥
कर्णौ ससुषिरौ ग्रीवापार्श्वयोश्चोदितौ तथा ।
बिलस्य बुध्ने पद्मं स्यादथ दण्डस्य लक्षणम् ॥
अवशिष्टास्त्रयो द्वौ वा भागौ दण्ड इतीर्यते ।
तस्य मूले भवेत्स्थूलः परिणाहो नवाङ्गुलः ॥