पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२५०

पुटमेतत् सुपुष्टितम्
२४६
[सायंसंध्याप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

गन्धानुलेपनां शङ्खचक्रगदापद्मधरां गरुडवाहनां विष्णुरूपिणीं सरस्वतीं ध्यायामीति सूर्याभेदेन ध्यात्वा देशकालसंकीर्तनाद्यबभिध्यानान्तं कृत्वा-- अग्निश्च मेत्यनुवाकमन्त्राणां याज्ञिक्यो देवता उपनिषद ऋषयः । अग्निर्मन्युर्मन्युपतयोऽहश्च देवताः । रक्षन्तामित्यन्तो मन्त्रो गायत्री दुरितं मयीत्यन्तः पङ्क्तिः । अवशिष्टमन्त्रो विराट् । एकं यजुर्वा । उदकपाने विनियोगः-- "ॐ अग्निश्च मा० यदह्ना० सत्ये ज्योतिषि जुहोमि स्वाहा" इत्युदकं पीत्वाऽऽचम्य पुनः प्रणवव्याहृतिगायत्र्याद्यैर्मार्जयित्वा पाप्मानमुत्सार्य प्रत्यङ्मुख उपविश्यैव सूर्याभेदेन सरस्वत्यभिधां संध्यां ध्यायन्नर्घ्यत्रयं भूमावेव पूर्ववद्दद्यात् । तत्र सवित्रे सरस्वत्या इदमर्घ्यं न ममेत्यर्घ्यदानवाक्ये विशेषः ।

 ततः पूर्ववत्प्रदक्षिणीकृत्याऽऽचमनप्राणायामौ कृत्वाऽपक्रामत्वित्यादिविधिना प्रत्यङ्मुखो गायत्रीजपं कृत्वा पूर्ववदुत्तरन्यासं कुर्यात् । तत्राऽऽयात्वित्यनुवाकमन्त्रेषु सूर्याभिन्ना विष्णुरूपिणी सरस्वत्यभिधा संध्या देवतेति देवतावाक्ये विशेषः । ऋषिच्छन्दोविनियोगवाक्यानि तु समानान्येव । विसर्जनवाक्येऽपीयं देवता ज्ञेया । शेषं पूर्ववत् ।

 ततः--

"सायंसंध्याप्रयुक्तेन गायत्रीजपनेन च ।
अध्यष्टशतजप्येन विष्ण्वात्मा प्रीयतां रविः"

 इति जपं निवेद्य संध्याविसर्जनं विधायोपस्थानं कुर्यात् ।

 तद्यथा-- इमं मे वरुण तत्त्वा यामीति द्वयोर्विश्वे देवा ऋषयः । वरुणो देवता । प्रथमस्य गायत्री द्वितीयस्य त्रिष्टुप् । यच्चिद्धि त इति मन्त्रत्रयस्य विश्वे देवा ऋषयः । वरुणो देवता । प्रथमस्य गायत्री द्वितीयतृतीययोस्त्रिष्टुप् । आदित्योपस्थाने विनियोगः-- "ॐ इमं मे वरु० " "तत्त्वा यामि०" "यच्चिद्धि ते०" यत्किं चेदं" "कितवासो०" इत्यादित्यं प्रत्यङ्मुख उपस्थाय--

"यां सदा सर्वभूतानि स्थावराणि चराणि च ।
सायं प्रातर्नमस्यन्ति सा मा संध्याऽभिरक्षत्वों नमः" ॥

 इति संध्यामुपस्थाय--

 नमः प्राच्यै दिश इत्यादिमन्त्राणां स्वयंभूर्ऋषिः । प्राच्यादिदिशस्तत्तद्दिक्पतयस्तत्तद्दिग्वासिदेवताश्च देवताः । नमो गङ्गायमुनयोरित्यस्य गङ्गायमुनान्तरवासिनो मुनयो देवता यजूंषि । उपस्थाने विनियोगः--"ॐ नमः प्राच्यै दिशे याश्च दे० भ्यश्च नमः" । इति प्राचीं दिशं तदधिपतिं तद्वासिदेवांश्चोपस्थाय--