पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२५१

पुटमेतत् सुपुष्टितम्
[प्रातःसंध्याप्रयोगः]
२४७
संस्काररत्नमाला ।

 "नमो दक्षिणायै दिशे" इत्याद्यैस्तत्तन्मन्त्रैस्तत्तदुपस्थानं कुर्यात् । अवान्तरदिगाद्युपस्थानमन्त्रस्य चतुर्वारमावृत्तिः सकृदेव वा । नमो गङ्गायमुनयोरित्येतेन मुनीन्प्राङ्मुख उपतिष्ठेत । केचित्तु प्रतीच्यादिक्रमोऽत्रेत्याहुः । अत्र वा संध्याविसर्जनम् । ततः संध्यायै नम इत्यादि विष्णुस्मरणान्तं कुर्यात् ।

इति सायंसंध्या ।

अथ प्रातःसंध्या ।

 पूर्ववदाचमनप्राणायामौ कृ[]त्वा प्रातःसंध्यां कुमारीं रक्तां रक्तवस्त्रां रक्तमाल्यां रक्तगन्धानुलेपनां पुस्तकाक्षकमण्डल्वजिनकरां हंसवाहनां ब्रह्मरूपिणीं गायत्रीं ध्यायामीति सूर्याभेदेन ध्यात्वा देशकालसंकीर्तनाद्यवभिध्यानान्तं कृत्वा--

 सूर्यश्चेत्यनुवाकमन्त्राणां याज्ञिक्यो देवता उपनिषद ऋ[]षयः सूर्यो मन्युर्मन्युपतयो रात्रिश्च देवताः । रक्षन्तामित्यन्तस्य गायत्री, दुरितं मयीत्यन्तस्य, पङ्क्तिः । अवशिष्टमन्त्रस्य विराट् । एकं यजुर्वा । उदकपाने विनियोगः-- "ॐ सूर्यश्च मा० यद्रात्रिया पापम० रात्रिस्तद० सूर्ये ज्योतिषि जुहोमि स्वाहा" इत्युदकं पीत्वाऽऽचम्य पुनः प्रणवव्याहृतिगायत्र्याद्यैर्मार्जयित्वा पापपुरुषमुत्सार्य तिष्ठन्प्राङ्मुखः सूर्याभेदेन गायत्र्यभिधां संध्यां ध्यायन्नञ्जलिनाऽर्घ्यत्रयं जलमध्य एव दद्यात् । तत्र सवित्रे गायत्र्या इदमर्घ्यं न ममेत्यर्घ्यदानवाक्ये विशेषः ।

 ततः प्रदक्षिणादि न्यासान्तं कुर्यात् । तत्राऽऽयात्वित्यनुवाकमन्त्रेषु सूर्याभिन्ना ब्रह्मरूपिणी गायत्र्यभिधा संध्या देवतेति देवतावाक्ये विशेषः । ऋषिच्छन्दोविनियोगवाक्यानि तु समानान्येव ।

 ततः--

"प्रातःसंध्याप्रयुक्तेन गायत्रीजपनेन च ।
अध्यष्टशतजप्येन ब्रह्मात्मा प्रीयतां रविः" ॥

 इति जपं निवेद्य संध्यां विसृज्य मुकुलितकर आदित्यमुपतिष्ठते--

 मित्रस्य चर्षणीधृत इत्यादिमन्त्रत्रयस्य विश्वे देवा ऋषयो मित्रो देवता । प्रथमस्य गायत्री, द्वितीयतृतीययोस्त्रिष्टुप् । आदित्योपस्थाने विनियोगः-- "ॐ मित्रस्य०" "मित्रो जना०" "प्रसमित्र" इत्यादित्यमुपस्थाय


  1. ग. घ. ङ. विधाय ।
  2. ग. घ. ङ. ऋषिः ।