पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२५२

पुटमेतत् सुपुष्टितम्
२४८
[भोजनविधिः]
भट्टगोपीनाथदीक्षितविरचिता--

यां सदेति संध्यामुपस्थाय नमः प्राच्यै दिश इत्यादि विष्णुस्मरणान्तं सायंसंध्यावत्कुर्यात् ।

इति प्रातःसंध्या ।

अथ प्रसङ्गाद्भोजनविधिः ।

 आयुष्कामः प्राङ्मुखः कीर्तिकामो दक्षिणामुखः श्रीकामः प्रत्यङ्मुखो निष्कामः प्राङ्मुखः पित्र्यं विना नोदङ्मुखः कदाचन जीवन्मातृपितृको जीवदन्यतरो वा दक्षिणामुखो नैव कदाचनेत्यभिसंधायोपविश्य समस्तव्याहृतीनां पूर्ववदृष्याद्युक्त्वाऽन्नोपस्थाने विनियोग इति विनियोगमुक्त्वा भूर्भुवः सुवरों तदन्नमाह्रियमाणमुपस्थाय परिविष्टं प्रणवव्याहृतिसहितया गायत्र्याऽभ्युक्ष्य तर्जन्यां रौप्यं धृतं चेन्निष्कास्य वामहस्तेन चतुरश्रमण्डले स्थापितं भोजनपात्रं धृत्वा दक्षिणहस्तेन जलमादाय--

 ऋतं त्वेत्यस्याग्निरन्नं यजुः । अन्नपरिषेचने विनियोगः--"ॐ ऋतं त्वा स० षिञ्चामि" इति सायमन्नं परिषिञ्चति ।

 सत्यं त्वर्तेनेत्यस्याग्निरन्नं यजुः । अन्नपरिषेचने विनियोगः--"ॐ सत्यं त्वर्तेन परिषिञ्चामि" इति प्रातरन्नं परिषिञ्चति ।

 ततो भोजनपात्रस्य दक्षिणतो दशाङ्गुलपरिमितं पञ्चाङ्गुलपरिमितं वा स्थलं त्यक्त्वा, तत्र तूष्णीमभ्युक्ष्यान्नात्किंचिदन्नं गृहीत्वा,

 व्यस्तव्याहृतीनामग्निर्ऋषिः समस्तव्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्यप्रजापत[१]यः क्रमेण चतसृणां देवताः । गायत्र्युष्णिगनुष्टुब्बृह[२]त्यः क्रमेण चतसृणां छन्दांसि, बलिनिवपने विनियोगः--"भूः स्वाहा" अग्नय इदं० । पुनरन्नाद्गृहीत्वा--"भुवः स्वाहा" वायव इदं० । पुनर्गृहीत्वा--"सुवः स्वाहा" सूर्यायेदं० । पुनर्गृहीत्वा--"भूर्भुवः सुवः स्वाहाः" प्रजापतय इदं० । इति प्राक्संस्थमुदक्संस्थं वाऽभ्युक्षितप्रदेशे बलीन्निवपति । बलिषु न वा त्यागः । एवं सर्वेषु बलिषु ।

 ततो बलीन्परिषिच्य हस्तं प्रक्षाल्य, अन्न पत इत्यस्याग्निरन्नपतिस्त्रिष्टुप् । अन्नाभिमन्त्रणे विनियोगः-- "ॐ अन्नपतेऽन्नस्य नो० चतुष्पदे" इत्यन्नमभिमन्त्रयते ।


  1. ग. घ. द. तयो दे ।
  2. ग. घ. ङ. हत्यदछन्दा ।