[उपनयनप्रकरणम्]]
२५५
संस्काररत्नमाला ।
( भोजनकालेऽशुचितादिदोषे प्रायश्चित्तानि )
सकृन्निगीर्णग्रासे तु, आपस्तम्बः--
"भुञ्जानस्य तु विप्रस्य कदाचित्स्रवते गुदम् ।
उच्छिष्टमशुचित्वं च प्रायश्चित्तं कथं भवेत् ।
आदौ कृत्वा तु वै शौचं ततः पश्चादुपस्पृशेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति" इति ।
|
यत्तु शातातपः--
"कृत्वा मूत्रविडुत्सर्गं मोहाद्भुङ्क्तेऽथवा पिबेत् ।
त्रिरात्रं तत्र कुर्वीत प्राणायामत्रयं ततः" इति[१] ।
|
तद्भूयो ग्रासाशने । त्रिरात्रमित्यनन्तरमुपोषणमिति शेषः[२] । विडुत्सर्गः पुरीषोत्सर्गः ।
भोजनकालेऽशुचितायां शातातपः--
"अथ भोजनकाले चेदशुचिर्भवति द्विजः ।
भूमौ निक्षिप्य तं ग्रासं स्नात्वा विप्रो विशुध्यति ।
भक्षयित्वा तु तं ग्रासमहोरात्रेण शुध्यति ।
अशित्वा सर्वमन्नं तु त्रिरात्रेण विशुध्यति" इति[३] ।
|
([४]एतत्सर्वं प्राणाहुत्युत्तरं ज्ञेयम् ।
दुष्टान्नाशने ब्रह्मपुराणे--
"भक्ष्यं त्वभक्ष्यवाक्येन(ण) यद्दद्या[५]द्रोषधर्मतः ।
गुरोरपि न भोक्तव्यं वाग्दुष्टं तन्महापदि" इति ।
|
एतत्प्रायश्चित्तमाह गौतमः, वाग्दुष्टादि प्रक्रम्य--
"छर्दनं घृतप्राशनं च" इति ।
|
एतच्चाकामतः ।
कामतस्तु शङ्खः--
"वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते ।
भुक्त्वाऽन्नं तु द्विजः पश्चात्रिरात्रं तु व्रती भवेत्" इति ।
|
[६]व्रतमत्र यावकम् ।)
- ↑ ख. ग. घ. ङ. ति । त्रि ।
- ↑ ख. ग. घ. ङ. षः । एतद्भूयो ग्रासाशने । वि ।
- ↑ ख. ति । दु ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो घ. ङ पुस्तकयोर्नास्ति ।
- ↑ क. द्याद्दोष ।
- ↑ एतत्प्रभृति भोजनविधिसमाप्तिपर्यन्तो ग्रन्थो नास्ति ख. पुस्तके ।