पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२६३

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]]
२५९
संस्काररत्नमाला ।
( समिदभ्याधानप्रयोगः )
 

 ततस्तमग्निं यत्ते अग्न इत्येतैस्त्रिभिर्मन्त्रैरुपतिष्ठते, मयि मेधां मयि प्रजां मय्यग्निरित्येतैस्त्रिभिश्च ।

 पुरस्तात्परिषेचनादिति वचनं सर्वेष्वपि श्रौतेषु दर्विहोमेष्वभ्यन्तरदीक्षायामाधानादौ च परिषेकार्थम् । अग्रे परिषिञ्चतीति वचनं परिमार्जनपरिषेकयोः संबन्धप्रदर्शनार्थम् । तेनानन्तरोक्तेषु कर्मस्वपि परिमार्जनमपि सिध्यति । पुरस्तात्परिषेचनादिति सिद्धवदनुवादादेव परिषेकस्य समन्त्रत्वसिद्धौ यथा पुरस्तादिति वचनमत्रैव समन्त्रं परिषेक इतरत्र तु तूष्णीमित्येतदर्थम् , परिसंख्यानार्थं च । तेनाग्न्यायतनसंस्कारपरिस्तरणानि न विद्यन्ते । पूर्वपरिषेकसंबन्धादेवोत्तरपरिषेके सिद्धे पुनर्वचनं समन्त्रपूर्वपरिषेक एवायमुत्तरपरिषेकः । न त्वमन्त्रकपूर्वपरिषेकेऽपि । तेनैतत्समिदाधानातिरिक्तेषु कर्मसु नोत्तरपरिषेकः ।

 अथवा पुरस्तात्परिषेचनादिति सिद्धवदनुवाद उद्धननादितन्त्रप्राप्त्यर्थः । अग्रे पुनः परिषिञ्चतीति वचनं पूर्वपरिषेकस्यैव पूर्वतन्त्रावधित्वप्रदर्शनार्थम् । उत्तरत्र तथैव परिमृज्य परिषिञ्चति यथा पुरस्तादिति वचनं परिसंख्यानार्थम् । तेनेतरस्योत्तरतन्त्रस्य निवृत्तिः ।

 अथवा पुरस्तात्परिषेचनादिति वचनं परिषेकसदृशान्यधिकरणसंस्कारकाणि कर्माण्यग्न्यायतनसंस्कारपरिस्तरणात्मकान्येवात्र भवन्ति, नान्यानीत्येतदर्थम् । अग्रे परिषिञ्चतीति वचनं परिषेकान्तान्येवाधिकरणसंस्कारकाणि कर्माणि स्युर्नोत्तराणीध्माधानादीनि ता[१]दृशानीत्येतदर्थम् । यथा पुरस्तादितिवचनस्य प्रयोजनं तु पूर्ववदेव ।

 परिमार्जने प्रदक्षिणवचनमेकप्रयत्नेनैव परिमार्जनं न तु व्यवच्छेदेन तत्तद्दिक्षु परिमार्जनमिति ज्ञापनार्थम् ।

 एकैकशः समस्ताभिश्चेत्युभयवचनादेवं ज्ञायते, केवलव्याहृतिग्रहणे व्यस्ताः समस्ता वा व्याहृतयः प्रत्येतव्याः । न तु व्यस्ताः समस्ताश्चेति ।

 परिसमुह्य समिध आदध्यात्सायं प्रातर्यथोपदेशं सायमेवाग्निपूजेत्येक इति धर्मसूत्रे वचनं परिषेकनिवृत्त्यर्थम् । तेन विहितप्रतिषिद्धत्वाद्विकल्पः ।

 एतच्च प्रातःकालस्यातीतत्वादर्थात्सायमुपक्रम्याऽऽसमावर्तनादहरहरुभयोः कालयोः सायं सायमेव वा कार्यम् ।

 न चोभयत्र क्रियापक्षे द्वितीयदिने प्रातरेवोपक्रमः कर्तव्यो वैश्वदेववदिति


  1. तानि । सदृ ।