पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२६४

पुटमेतत् सुपुष्टितम्
२६०
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( अकृताग्निकार्यस्य तत्करणे गौणकालः, सलक्षणः समिदाहरणनियमः )
 

वाच्यम् । उपस्थितसायंकालपरित्यागे प्रमाणाभावात्[१] । वैश्वदेववत्प्रातरुपक्रमसाधकप्रमाणाभावाच्च । वैश्वदेवे तु ये भूताः प्रचरन्ति दिवानक्तमितिमन्त्रे प्रातःसायंकालवाचकयोर्दिवानक्तपदयोर्मध्ये दिवापदप्रथमोपादानमेव प्रातरुपक्रमे प्रमाणम् । न ह्यत्र तथा प्रमाणं लभ्यते ।

 प्रातःसंध्योत्तरमकृतस्याग्निकार्यस्य यावद्भोजनं गौणकालमाह याज्ञवल्क्यः--

"कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया" इति ।

 अग्निकार्यार्थसमिदाहरणे विशेषो धर्मसूत्रे--

 "सदाऽरण्यादेधानाहृत्याधो निदध्यान्नास्तमिते समिद्धारो गच्छेत्" इति ।

 आत्मनः समिदाधानार्थमेधान्काष्ठानि सदा प्रत्यहमाहरेत् । तान्याहृतान्यधो निदध्यात् । अस्तमित आदित्ये समिध आहर्तुं न गच्छेच्चोरव्याघ्रादिसंभवादिति व्याख्यातमुज्ज्वलाकृता ।

 अन्यश्च विशेषो बैजवापेनोक्तः--

 "पुराऽस्तमयात्प्रागुदीचीं दिशं गत्वाऽहिंसन्नरण्यात्समिध आहरेच्छुष्का ब्रह्मवर्चसकामस्याऽऽर्द्रा अन्नाद्यकामस्योभयीरुभयकामस्य" इति ।

 अहिंसन्नच्छिन्दन् । अभावे छिन्दन्नपीति ज्ञेयम् ।

 समिन्नियमो वायवीये--

"पालाश्यः समिधः कार्याः खादिर्यस्तदलाभतः ।
शमीरोहितकाश्वत्थास्तदभावेऽकवेतसौ" इति ॥

 रोहितको वटावान्तरजातिः । रोहितो वर्णोऽस्यास्तीति मत्वर्थीयोऽच् स्वार्थे कन् । रोहीतक इति दीर्घकारवानप्येतदर्थक एव ।

 समिल्लक्षणं कात्यायन आह--

"नाङ्गुष्ठादधिका कार्या समित्स्थूलतया क्वचित् ।
न वियुक्ता त्वचा चैव न सकीटा न पाटिता ॥
प्रादेशान्नाधिका नोना तथा नैव द्विशाखिका ।
न सपर्णा न निर्वीर्या होमेषु च विजानता" इति ॥

 प्रादेशान्नाधिका नोनेति सूत्रोक्तसमित्कार्यविषये न प्रवर्तते, तत्र तत्र


  1. ख. त् । वैश्वदेवे । घ. ङ. त् । प्रात ।