पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२७

पुटमेतत् सुपुष्टितम्
[यज्ञियपात्रलक्षणानि]
२३
संस्काररत्नमाला ।

चत्वारि कपालानि भवन्ति । ततस्तानि पक्त्वा परिशेषितप्रदेशेषु विभजेत् । अत्रैव कपालशब्दस्य रूढेः । शम्यामानमप्याह स एव--

"त्रिप्रादेशा भवेच्छम्या कुम्बाग्राऽतिमनोहरा ।
एकप्रादेशमात्रा वा शम्या लौगाक्षिदर्शनात्" इति ।

 दृषदादीनां पूर्वेद्युःश्राद्ध उपयोगः ।

  स्रुवलक्षणमाह मण्डनः--

"अर्धाङ्गुलमितच्छिद्रः स्रुवस्त्वङ्गुलबुध्नवान् ।
अङ्गुष्ठपर्वणो यद्वा वृत्तं तन्मात्रपुष्करम्" इति ।

 आश्वलायनस्मृतौ--

"अष्टाङ्गुलमिता स्थाली प्रोक्षणी च षडङ्गुला ।
चमसश्चाऽऽज्यपात्रं च षडङ्गुलमिति स्मृतम्" इति ।

 उच्चताऽर्थसिद्धा । स्थाली चरुस्थाली । आज्यपात्रमाज्यस्थाली । वितस्तिर्गृह्यकर्मणीतिवचनसिद्धेन वितस्त्यात्मकेन प्रोक्षणीप्रमाणेन षडङ्गुलप्रमाणं विकल्पत इति केचित् ।

 कात्यायनेन चरुस्थालीलक्षणमन्यथोक्तम्--

"दृढा प्रादेशमात्र्यूर्ध्वं तिर्यङ्नातिबृहन्मुखी ।
मृन्मय्यौदुम्बरी वाऽपि चरुस्थाली प्रशस्यते" इति ।

 एतच्च प्रादेशमात्रत्वमाश्वलायनस्मृत्युक्तेनाष्टाङ्गुलप्रमाणेन विकल्पते । औदुम्बरी ताम्रमयी । मेक्षणलक्षणमप्युक्तं कात्यायनेन--

"इध्मजातीयमिध्मार्धप्रमाणं मेक्षणं भवेत् ।
वृत्तं वार्क्षं च पृथ्वग्रमवदानक्रियाक्षमम्" इति ।

 इध्मजातीयमित्यनेनैव वृक्षलाभे वार्क्षमिति वचनमिध्मवृक्षातिरिक्तवृक्षस्यापि पक्षे संग्रहार्थम् ।

 संग्रहे--

"आयामं पञ्चधा कृत्वा त्रिभागं दण्डमेव च ।
द्विभागं पुष्करं प्रोक्तं दर्व्या लक्षणमुत्तमम्" इति ।

 इयं च दर्वी पूर्णाहुत्यादिहोमे होमानुसारेण कल्पनीया । यत्र द्विस्त्रिर्गृहीताज्यहोमः प्रायश्चित्तादौ तत्राप्येवम् । यत्रैवमाज्यहोमो नास्ति तत्र[] कर्षप्रमाणमाज्यं यावति बिले संमाति तावत्प्रमाणबिला दर्वी ग्राह्या ।


  1. ग. त्र स्रववक्त्रप्र ।