अथान्तरितसंस्काराणां प्रयोगः ।
तत्राऽऽदौ तल्लोपप्रायश्चित्तम् ।
तत्र स्मृतिः--
"आरभ्याऽऽधानमा चौलात्कालेऽतीते तु कर्मणाम् । |
आधानं गर्भाधानमारभ्य चौलान्तानां संस्काराणां सर्वेषामसर्वेषां वा कालेऽतीते कालातिक्रमे सत्याज्यं संस्कृत्य व्याहृत्या समस्तव्याहृतिभिः कर्मसंख्ययाऽऽज्याहुतीर्हुत्वा तावत्संख्ययाऽऽपदि पादकृच्छ्रं चूडातिक्रमनिमित्तमर्धकच्छ्रं प्रायश्चित्तं कुर्यात् । अनापदि तु चूडातिक्रमनिमित्तं कृच्छ्रमितरत्रार्धकृच्छ्रमिति विशेषः । ततोऽतीतं यथाक्रमं कर्म चरेत् । कालेऽतीते त्वित्यत्र तुशब्दोऽप्यर्थे । तेन लोपस्यापि संग्रहः । यदि भ्रमादन्तरितं कर्म तदीयान्तरितप्रायश्चित्तं वाऽकृत्वैवाग्रिमसंस्कारं करोति तदा पूर्वस्य लोप इतरथाऽतिक्रमः । तत्र लोपेऽप्यतिक्रान्तप्रायश्चित्तवदेव प्रायश्चित्तं द्रष्टव्यम् । परं त्वतीतकर्मानुष्ठानमत्र नास्ति ।
"प्रायश्चित्ते कृते पश्चादतीतमपि कर्म वै । |
इति वचनेनातिक्रान्तस्यैव कर्मणः कर्तव्यताप्रतिपादनात् । यद्यप्यत्र होमोत्तरमतीतकर्मानुष्ठानं तदनन्तरं कृच्छ्रादिप्रायश्चित्तमिति क्रमः प्रतीयते तथाऽपि पाठक्रमा[१]दार्थक्रमस्य बलीयस्त्वाद्धोमोत्तरं कृच्छ्रादिप्रायश्चित्तं ततोऽतीतकर्मानुष्ठानमित्येवात्र क्रमः । हुत्वा चैव यथाक्रममिति पाठे तु यथाक्रमं यथासंख्यं व्याहृतिभिर्हुत्वा कृच्छ्रादिप्रायश्चित्तं चरेदित्यर्थः । अतीतकर्मानुष्ठाने प्रायश्चित्ते कृते पश्चादित्यनेन विकल्पः । एतेषु गर्भाधानादिचौलान्तेषु कर्मसु मध्य एकस्यैकस्य लोपे पादकृच्छ्रप्रायश्चित्तं चरेदित्येतेष्वेकैकलोपेऽपीत्यस्यार्थः । अपिशब्दो द्व्यादिकर्मलोपसमुच्चयार्थः । तेन कर्मद्वयलोपे त्रिप्रभृतिकर्मणां सर्वेषामसर्वेषां वा लोपेऽपि पादकृच्छ्रप्रायश्चित्तं भवति । पादकृच्छ्रविषय एवैकैकस्य लोपस्य निमित्तत्वोक्तिर्होम एकैकलोपस्य निमित्ततायाः पाक्षिकतां गमयतीति द्रष्टव्यम् ।
- ↑ क. मादर्थ ।