पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२७५

पुटमेतत् सुपुष्टितम्
( अन्तरितसंस्कारकरणे तत्संकल्पः )
२७१
संस्काररत्नमाला ।

चौलसंस्कारकर्मणः स्वकालेऽकरणेन जनितस्य प्रत्यवायस्य परिहारार्थमर्धकृच्छ्रं प्रायश्चित्तं च क्रमेण करिष्य इतिसंकल्पपूर्वकं विप्रभोजनहोमान्यतरप्रत्याम्नायद्वारा कुर्यात् । सूर्यावलोकननिष्क्रमणयोः शास्त्रान्तरोक्तत्वेनानावश्यकत्वान्न तदकरणे प्रायश्चित्तम् ।

 अथ षष्ठे मास्यन्नप्राशनमित्यत्रत्याथशब्देन निष्क्रमणस्य ज्ञापितत्वादावश्यक एवायं संस्कार इति यद्युच्यते तदाऽन्नप्राशनपदादेतदुल्लेख एतदकरणप्रायश्चित्तं च भवत्येव । एवं प्रायश्चित्तं विधायातीतान्संस्कारानुपनयनदिने तत्पूर्वदिने वा तन्त्रेण कुर्यात् । चौलं तूपनयनदिन एव ।

 पत्न्या संस्कार्येण च सहोपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्या भार्यायाः प्रतिगर्भसंस्कारातिशयद्वाराऽस्यां जातस्यास्यां जनिष्यमाणगभार्णां च बीजगर्भसमुद्भवैनोनिबर्हणक्षेत्रसंस्कारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं गर्भाधानाख्यं कर्म, अस्य जातस्य बीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुंसवनाख्यं कर्म, अस्य जातस्य जनिष्यमाणगर्भाणां च बैजिकगार्भिकैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं सीमन्तोन्नयनाख्यं कर्म, अस्य कुमारस्य गर्भाम्बुपानजनितदोषनिबर्हणबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं जातकर्म, अस्य पुत्रस्य बीजगर्भसमुद्भवैनोनिबर्हणायुर्वर्चोभिवृद्धिव्यवहारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं नामकर्म, अस्य शिशोरायुरभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं सूर्यावलोकनम्, अस्य शिशोरायुःश्रीवृद्धिबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं निष्क्रमणम्, अस्य पुत्रस्य मातृगर्भमलप्राशनशुद्धिबीजगर्भसमुद्भवैनोनिबर्हणान्नाद्यब्रह्मवर्चसतेजइन्द्रियायुरभिवृद्धद्वारा श्रीपरमेश्वरप्रीत्यर्थमन्नप्राशनाख्यं कर्म चाद्य, अस्य कुमारस्य बीजगर्भसमुद्भवैनोनिबर्हणबलायुर्वर्चोभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं चौलाख्यं कर्मास्यामुकशर्मणः कुमारस्य द्विजत्वसिद्धिपूर्वकवेदाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाचार्यपैतृकसावित्रीमातृकमुपनयनाख्यं कर्म च[१] श्वः करिष्य इति संकल्पः ।

 जातकर्मचूडाकरणकर्मणोः कुमारशब्दप्रयोगवत्तन्मध्यस्थत्वान्नामकर्मादावपि तत्प्रयोग इति कल्पे नामकर्मादिसंकल्पे पुत्रादिशब्दस्थाने कुमारशब्दस्य प्रयोगः कार्यः । कुमारस्य पुत्रस्येत्युभयप्रयोगो वा नामकरणान्नप्राशनयोर्धर्मसूत्रस्मृत्युक्तः । शिशुत्वबालत्वव्यवहारस्तु तच्छुद्धिव्य


  1. ग. घ. ङ. च. श्वस्तन्त्रेण क ।