पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२८०

पुटमेतत् सुपुष्टितम्
२७६
[विकलाङ्गोपनयनम्]
भट्टगोपीनाथदीक्षितविरचिता--

त्वनिष्पादका इति विशेषणदानेनाग्न्याधानादीनां स्थालीपाकानां च व्यावृत्तिः क्रियते । तेषां हि केवलं प्रत्यवायमात्रनिवर्तकत्वं न तु द्विजत्वनिष्पादकत्वम् । केचिदाचार्याः 'मूकोन्मत्तौ न संस्कार्यौ' इति वदन्ति । उपनयनाद्यैरिति शेषः । तेषामध्ययनासंभवेनाध्ययनार्थस्योपनयनस्याभावात् । उपनयनवत्काण्डव्रतादीनामप्यभावः । उन्मत्त उन्मादवान्विक्षिप्तचित्त इति यावत् । एतयोर्मूकोन्मत्तयोः कर्मसूपनयनादिकर्मस्वनधिकारादधिकाराभावात् । चकारोऽवधारणार्थः । कर्मस्वधिकाराभावादेव पातित्यं नास्तीत्यर्थः । द्वितीयश्चकारः समुच्चयार्थः । उपनयनादिकर्माणि न सन्ति पातित्यं च नास्तीत्येवं समुच्चयः । मूकोन्मत्तयोः कर्मस्वनधिकारात्पातित्यमिति नास्ति किंतु'ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः सः' इति श्रुत्या ब्राह्मणादुत्पन्नयोर्मूकोन्मत्तयोरप्युपनयनादिसंस्कारार्हत्वप्रतिपादनात्तावपि संस्कार्यौ तदपत्यं च संस्कार्यमित्यपरे । अन्यथा 'न संस्कार्यो' इति कैश्चिदाचार्यैरुक्तं तद्विपरीतमेतादृशमर्थमाहुः । 'संस्कारमन्त्रहोमादीन्करोत्याचार्य एव तु' इत्यत्र कुमारं स्पृष्ट्वेति शेषः । संस्कारमन्त्राः कु(न्त्रान्कु)मारकर्तृकसंस्कारमन्त्रपठनं होमादिकर्माणि चाऽऽचार्य एव कुर्यात् । उपनयने कुमारकर्तृकहोमाभावाद्धोमशब्देन समिदभ्याधानं गृह्यते । आदिशब्देन मार्जनोपस्थानादिकाण्डव्रतानां लोप एव । तेषामध्ययनाङ्गत्वात् ।

 न चैवमुपनयनस्याप्यध्ययनार्थत्वान्मूकोन्मत्तविषये लोपोऽस्त्विति वाच्यम् । तस्य द्विजत्वसंपादनद्वाराऽध्ययनार्थत्वेनाध्ययनासंभवेऽपि द्विजत्वसंपादनायावश्यमपेक्षितत्वात् । एवं गोदानमपि भवत्येव । तस्याध्ययनाङ्गत्वाभावात् ।

 विवाहसंभवे समावर्तनमपि कंचित्कालं व्रताचरणं कृत्वोत्तरायणे कार्यम् । विद्यास्नानोभयस्नानयोरभावाद्व्रतस्नानमेव तयोः । विवाहासंभवे तु तस्य नैष्ठिकब्रह्मचर्यमेव । कलौ यो नैष्ठिकब्रह्मचर्यनिषेधः स मूकोन्मत्तत्वदोषरहितपुरुषपरः । 'उपनेयांस्तु विधिवदाचार्यः स्वसमीपतः' इत्यस्यार्थः--उपनेयान्पूर्वोक्तषण्ढादीन्विधिवत्स्वगृह्योक्तप्रकारेणाऽऽचार्यः स्वसमीपतः स्वाभिमुखान्कुर्यादिति । 'आनीयाग्निसमीपं वा सावित्रीं स्पृश्य वा जपेत्' इत्यस्यार्थः--अग्निसमीपं वाऽग्न्यभिमुखान्वा कुर्यात् । पूर्वत्राऽऽचार्यः स्वाभिमुखान्कुर्यादित्युक्तं तत्रेदं पक्षान्तरम् । 'सावित्रीं स्पृश्य वा जपेत्' इत्यत्रत्यो वाशब्दः प्रसिद्धेन सावित्रीवाचनेन सह विकल्पार्थः । स च योग्यतानुसारेण व्यवस्थितो ज्ञेयः । कुमारस्य मूकत्वे स्पर्शपूर्वकः सावित्रीजपः । उन्मत्तत्वे यदि पठति तदा वाचनं नो चेत्स्पृष्ट्वा जप इति । षण्ढत्वान्धत्वादौ तु वाचनमिति