पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२८१

पुटमेतत् सुपुष्टितम्
[पुनरुपनयनम्]
२७७
संस्काररत्नमाला ।
( सलक्षणं पुनरुपनयनस्य त्रैविध्यम् )
 

व्यवस्था । सावित्रीं स्पृश्य वा जपेदित्यत्र स्पृश्य वा सावित्रीं जपेदित्यन्वयः । स्पृश्येत्यत्र कुमारमिति शेषः । स्पृश्येत्यत्र समासाभावेऽपि क्त्वोल्यबादेशश्छान्दसः । एवं कुमारकर्तृकसंस्कारमन्त्रपठनविधितदीयहोमादिकरणविधी व्यवस्थितौ ज्ञेयौ । पूर्वविधिः कुमारस्य मूकत्वे ज्ञेयः । उत्तरविधिस्तु कुमारस्याङ्गवैकल्ये । उन्मत्तत्वे पूर्ववत् । उपनेयांस्तु विधिवदित्याद्यग्निसमीपं वेत्यन्तं सर्वेषु समानम् । मूकबधिरादौ को नामासीति नामप्रश्नोऽपि नास्त्ययोग्यत्वान्न नाम पृच्छतीति बोधायनोक्तेश्च । अन्यदङ्गजातं यथासंभवं कार्यम् । मूकोन्मत्तयोरुपनयनेऽस्य द्विजत्वसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाचार्यपैतृकसावित्रीमातृकमुपनयनाख्यसंस्कारं करिष्य इति संकल्पवाक्यम् ।

इति विकलाङ्गोपनयनम्।

अथ पुनरुपनयनम् ।

 तच्च त्रिविधम् । प्रत्यवायनिमित्तप्रायश्चित्तत्वेन विहितं निमित्तविशेषेण कृतोपनयनस्य वृथाचेष्टात्वापत्तौ तत्फलार्थत्वेन विहितं वेदान्तराध्ययनचिकीर्षायां तदर्थत्वेन विहितं च ।

 तत्राऽऽद्यं प्रयोगपारिजाते शातातपः--

"लशुनं गृञ्जनं जग्ध्वा पलाण्डुं च तथा शु[१]नम् ।
उपनायं पुनः कुर्यात्तप्तकृच्छ्रं तथैव च" इति ॥

 लशुनः प्रसिद्धः । ( [२]स च श्वेत एव निषिद्धः ।

 तथा च पराशरः--

"पीयूषं श्वेतलशुनं वृन्ताकफलगृञ्जने" इति ।

 श्वेतपदं लशुनवृन्ताकाभ्यामपि संबध्यते । तेन रक्तलशुनकृष्णवृन्ताकभक्षणे न प्रायश्चित्तमिति माधवः । ) गृञ्जनं लशुनतुल्यः कन्द इति विज्ञानेश्वरः । यदीयं चूर्णं गायकाः कण्ठशुद्ध्यै विटाश्च मदार्थमश्नन्ति स पत्रविशेष इति माधवः।


  1. ख. ग. शुभम् ।
  2. धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोर्नास्ति ।