पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२८५

पुटमेतत् सुपुष्टितम्
[पुनरुपनयने कारणानि]
२८१
संस्काररत्नमाला ।
( पुनरुपनीतकर्तृकपुनरुद्वाहसंकल्पः )
 

 तदभावतस्तदभाव इत्यर्थः ।

 ममौर्ध्वदेहिकजनितानिष्टदोषनिबर्हणपूर्वकपुनर्गृहस्थाश्रमसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं तामेव स्त्रियमुद्वहिष्य इति संकल्पः[१] । न वा पुनर्गृहस्थाश्रमसिद्धिद्वारेति । देवपित्रर्णानपाकरणे तु देवपित्रर्णापाकरणसिद्धिद्वारेत्यपि वक्तव्यम् । यदि पूर्वस्त्रिया अभावस्तदा स्वोद्वाहं करिष्य इति प्रीत्यर्थमित्यनन्तरं वदेत् । नात्र पित्रादिकर्तृकं दानम् । पूर्वोढायामेतस्यां भार्यायां मदुपभोगार्हतासिद्धिद्वारैतस्मिन्नग्नावौपासनत्वसिद्धिद्वारा चेति विवाहहोमसंकल्पवाक्यम् । स्त्र्यन्तरपरिणये तु विवाहसंकल्पः प्रथमविवाहसंकल्पवदेव । विवाहहोमोत्तरं गृहप्रवेशस्थालीपाकश्चतुर्थीकर्म च ।

 ब्रह्मचारिणं पुरस्कृत्य पैठीनसिः--

"मधुमांसाशने त्रिरात्रमुपवासः पुनरुपनयनं च" इति ।

 अयं च त्रिरात्रोपवासः प्राजापत्याशक्तस्येत्युक्तं मदनरत्ने । 'एतयोरमत्या भक्षणे कृच्छ्रो मत्या पराकः । अभ्यासे द्विगुणं पुनःसंस्कारश्च' इति स्मृत्यर्थसारे । तथा तत्रैव-- 'मातापितृगुर्वाचार्योपाध्यायेभ्योऽन्यप्रेतसंस्कारे ब्रह्मचारिणः पुनरुपनयनं कार्यम्' इति । अपरार्केऽप्येवम् । तथा-- 'रेतोविण्मूत्रकरनिर्मथितदधिबहिर्वेदिपुरोडाशभक्षणानामत्यभ्यासेऽतिकृच्छ्रः पुनरुपनयनं च' इति । बहिर्वेदिपुरोडाशभक्षणं लौकिकपुरोडाशभक्षणमिति केचित् । ऋत्विग्व्यतिरिक्तकर्तृकसंस्कृतपुरोडाशभक्षणमेव लौकिकपुरोडाशभक्षणम् । तथा च लौकिकं च तत्पुरोडाशभक्षणं चेत्येवमेव समासोऽत्रेत्यन्ये । पुरोडाशशब्दस्य विहितसंस्कारपूर्वकाकारविशिष्टद्रव्यवाचित्वादुत्तरकल्प एव श्रेयान् । एतच्च ज्ञानतोऽज्ञानतस्तूपवासः ।

तथा च कौर्मे--

"शणपुष्पं शाल्मलीं च करनिर्मथितं दधि ।
बहिर्वेदि पुरोडाशं जग्ध्वा नाद्यादहर्निशम्" इति ॥

 स्मृत्यन्तरे--

"कर्मनाशाजलस्पर्शात्करतोयाविलङ्घनात् ।
गण्डकीबाहुतरणात्पुनः संस्कारमर्हति" इति ॥

 गौडास्तु--

"करतोयाजलस्पर्शात्कर्मनाशाविलङ्घनात्" ॥

इति पठन्ति । तन्न । दानधर्मेषु करतोयास्नाने प्राशस्त्योक्तेः ।

"करतोये सदानीरे सरिच्छ्रेष्ठेऽतिविश्रुते ।
आप्लावयसि पौराणां पापं हरकरोद्भवे" ॥


३६
 
  1. घ. ङ. ल्पः । दैव ।