पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२८८

पुटमेतत् सुपुष्टितम्
२८४
(प्रायश्चित्तभूतपुरुनपनयनप्रयोगः)
भट्टगोपीनाथदीक्षितविरचिता--

र्मादीन्युपनयनान्तानि संस्कारकर्माणि करिष्य इति संकल्पः । एवं निमित्तान्तरेऽपि तत्तन्निमित्तोहेन संकल्पः ।

 ततः सर्वोद्देशेन स्वस्तिवाचनादि । श्मश्रूपपक्षवापनानन्तरं चौले केशवापनमिति विशेषो महद्व(हाव)यसः । विवाहसंकल्पतदर्थस्वस्तिवाचनादिकं तु संस्कार्येण स्वयमेव पृथक्कर्तव्यम् । यत्र तु पुनरुपनयनमात्रं प्रायश्चित्तत्वेन विहितं तत्र पर्षदुपदिष्टविधिना तदेव कार्यम् । तत्राऽऽचार्यः कृच्छ्रत्रयमग्निपवित्रमन्त्रजपपूर्वकं द्वादशसहस्रं द्वादशाधिकसहस्रं वा गायत्रीजपं कुर्यात् । संस्कार्यो निमित्तानन्तरोपनयन एतत्प्रायश्चित्तं न कुर्यादिति केचित् ।

 ततः कृतनित्यक्रिय आचार्यः पत्नीसत्त्वे सपत्नीको ग्रामात्प्राच्यामुदीच्यां वा दिशि गत्वा यत्र ग्राम्यपशुशब्दो न श्रूयेत तादृशं देशं यावत्पर्याप्तं संमार्जनोपलेपनाभ्यां शोधयित्वा तत्रोपविश्य स्वस्य दक्षिणतः संस्कार्यमुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकशर्मणस्तीर्थयात्रां विना प्रत्यन्तादिदेशगमनजनितदोषनिरसनपूर्वकपुनःसंस्कारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुनरुपनयनं करिष्य इत्येवं तत्तन्निमित्तानुसारेण संकल्पं कृत्वा गणपतिपूजनपुण्याहवाचनादिमण्डपदेवताप्रतिष्ठापनान्तं कुर्यात् । पुण्याहवाचने त्वग्निः प्रीयतामिति विशेषः ।

 ततो युग्मान्ब्राह्मणानन्नेन परिविष्य पुण्याहस्वस्त्ययनर्धीर्वाचयित्वा कृतमङ्गलस्नानं संस्कार्यं भोजयित्वा वपनस्नाने कारयेत् । महद्व(हाव)यसः श्मश्रूपपक्षवापनानन्तरं केशवापनम् । ततः स्थण्डिलकरणादि । अन्वाधाने प्रायश्चित्तभूतपुनरुपनयनहोमकर्मणि या इत्यादि प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्यन्तमुक्त्वाऽग्निं स्विष्टकृतं हुतशेषाज्याहुत्येत्यादि । पात्रासादनेऽहतवासोमेखलाजिनदण्डभिक्षापात्रव्यतिरिक्तानि पात्राण्यासादयेत् ।

 ततो ब्रह्माणं दक्षिणत उपवेश्य पवित्रकरणादिकपकादिपरिदानान्तम् । तत्राहतवासःपरिधापनमेखलाबन्धनाजिनोत्तरीयकरणानि न सन्ति । तत्तद्विधायके सूत्रेऽथशब्देन तत्तदभावस्य ज्ञापितत्वात् । नात्र जयाद्युपहोमाः ।

 ततोऽपरेणाग्निं कूर्चमित्यादिविधिना सावित्रीवाचनं कृत्वा सप्तपलाशसमिद्धोमादि । नात्र व्रतं, चरितत्वात् । भिक्षाचरणमपि न । तद्विधायकसूत्रेऽथशब्देन तदभावस्य ज्ञापितत्वात् । दण्डदानभिक्षामन्त्रदानयोः परस्परसंबन्धित्वेनैकसंबन्धिनिवृत्तावपरसंबन्धिनिवृत्तेरपि सिद्धेः । एतयोः परस्पर