पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२८९

पुटमेतत् सुपुष्टितम्
[ब्रह्मचारिधर्माः]
२८५
संस्काररत्नमाला ।

संबन्धित्वं तु दण्डं प्रदायेतिल्यपा सिद्धम् । प्रथम[१]वस्त्रदानमपि न । परिहितत्वात् । यदि ब्रह्मचारिणः समापितवेदस्य पुनरुपनयनं तदा संध्योपासनादिरूप एव कर्म कुर्वित्यत्रत्यकर्मशब्दस्यार्थ उपदेष्टव्यः । न तु गुरुशुश्रूषादिरूपवेदाध्ययनादिरूपावप्यर्थावुपदेष्टव्यौ ।

 यदि त्वब्रह्मचारिणः पुनरुपनयनं तदा समिध आधेहीत्यस्य वाक्यस्य लोपः । प्रथमोपनयनवत्र्यहमग्निधारणम् । अग्निकार्याधिकारी चेत्तदा समिध आधेहीत्यस्त्येव । उपनयनाग्नावग्निकार्यत्रिवृदन्नहोमो भवतः । वास्तुबलिर्नियतः । यस्मिन्नाश्रमे पुनरुपनयनं प्राप्तं तदाश्रमधर्माः कार्याः । यत्र तु पुनरुपनयनानन्तरमाश्रमान्तरस्वीकारस्तत्र जीर्णानि मेखलादीनि व्युदस्य नूतनानि धारयित्वा ब्रह्मचारिव्रतचर्यामुचितकालेन समाप्य विधिनाऽऽश्रमान्तरं स्वीकुर्यात् ।

इति संस्काररत्नमालायां विकलाङ्गोपनयनपुनरुपनयनप्रयोगः ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिगणेशदीक्षि-
ततनूजभट्टगोपीनाथदीक्षितविरचितायां सत्याषाढ-
हिरण्यकेशिस्मार्तसंस्काररत्नमालायां पष्ठं
प्रकरणम् ॥ ६॥

अथ सप्तमं प्रकरणम् ।

अथ संक्षेपेण ब्रह्मचारिधर्माः ।

 तत्रेदं गृह्यम्--

 "एतद्व्रत एवात ऊर्ध्वमाचार्यकुलवास्यश्नाति क्षारं लवण शमीधान्यमिति दण्डी जटी मेखली शिखाजटो वा स्यात्काषायमजिनं वा वस्ते न स्त्रियमुपैत्यष्टाचत्वारि शद्वर्षाणि चतुर्वि शतिं द्वादश यावद्ग्रहणं वा न त्वेवाव्रतः स्यात्" इति ।

 एतदित्यनेन प्रकृतं सावित्रीव्रतमक्षारलवणभोजनादि प्रतिनिर्दिश्यते । एतद्व्रतं यस्य सोऽयमेतद्व्रतः । एतद्व्रत एवात ऊर्ध्वमपि स्यात् । एवकारो


  1. क. ख. घ. ङ. मवास्यादा ।