वक्ष्यमाणान्यपि व्रतानि त्र्यहे स्युरित्येतदर्थम् । द्वौ ब्रह्मचारिणौ, आचार्यकुलवासी नैष्ठिकश्च । तयोर्यो विद्यार्थमेवाऽऽचार्यकुले वसति तच्छील आचार्यकुलवासी । यस्त्वाश्रमार्थ्यूर्ध्वमपि विद्याक्रियाया ब्रह्मचर्यं चरति स नैष्ठिकः । तयोराचार्यकुलवास्यश्नाति क्षारं लवणं शमीधान्यं च । इतिशब्दः समुच्चयार्थः । दण्डी मेखलीति मत्वर्थीय इनिः । जटीति नित्ययोगे । शिखैव जटा यस्य सोऽयं शिखाजटः । शिखामेव धारयेदितरान्केशान्वापयेदित्यर्थः । काषायं कषायेण रक्तं वस्त्रमजिनं वा वस्ते परिदधाति । काषायग्रहणं प्रदर्शनमात्रम् । माञ्जिष्ठं हारिद्रमिति यथावर्णं भवति । न स्त्रियमुपैति न मैथुनं चरतीत्यर्थः । कियन्तं कालमेतानि व्रतानि चरतीत्याकाङ्क्षायामष्टाचत्वारिंशद्वर्षाणीत्यादि । अष्टाचत्वारिंशत्, चतुर्विंशतिं, द्वादश, यावदध्ययनं वा व्रतचर्या भवति । यस्य नास्ति व्रतं सोऽव्रतः । अव्रतस्तु नैव भवेत् । अतिक्रान्ते संकल्पिते काले विद्यायामगृहीतायां प्राक्समावर्तनादव्रतो न स्याद्व्रतवांस्त्वेवाधीयीतेत्येतदर्थं तुशब्दः । समावृत्तेनापि प्राङ्निवेशादध्येयमिति वक्ष्यति धर्मे । सोऽप्याचार्यकुलेऽधीयानो नैवाव्रतः स्यादित्येतदर्थमेवकारः । व्रती त्वेव स्यादित्येतावता सिद्धे नाव्रत इति निषेधद्वयवचनं निविष्टोऽपि कृच्छ्रापत्तौ येन केनचिद्विक्षेपेणाऽऽचार्यकुले वसन्कालाद्यपेक्षयाऽव्रतो नैव स्यादित्येतदर्थम् । धर्मसूत्रे--'न गायेन्न रोदेन्न नृत्यदर्शी स्यात्' इति । गानं सामव्यतिरिक्तम् । रोदनमश्रुमोचनम् । एतदुभयं न कुर्यात् । नृत्यदर्शी नृत्यदर्शनशीलो न भवेदित्यर्थः । तथा-- 'न नग्नां स्त्रियं प्रेक्षेदोषधिवनस्पतीनाच्छिद्य नोपनिघ्रेदुपानहौ छत्रं यानमिति वर्जयेत्' इति । प्रेक्षमाणस्य मनसो विकारो भवति । अतो नग्नां स्त्रियं न प्रेक्षेत । ओषध्यः फलपाकान्ताः । वनस्पतयो ये पुष्पैर्विना फलन्ति । वीरुद्वृक्षाणामप्युपलक्षणम् । तेषां पत्रपुष्पे आच्छिद्य नोपजिघ्रेत् । आच्छिद्येतिवचनाद्यादृच्छिके गन्धग्रहणे न दोषः । उपानहौ प्रसिद्धौ(द्धे) । छत्रं प्रसिद्धम् । यानं शकटादि । हिशब्द एवंप्रकाराणामुपलक्षणार्थः ।
यमः--
"मेखलामजिनं दण्डमुपवीतं च सर्वदा । |
अग्नीन्धनमग्निकार्यसंज्ञकं समिदभ्याधानम् ।