पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२९२

पुटमेतत् सुपुष्टितम्
२८८
[ब्रह्मचारिधर्माः]
भट्टगोपीनाथदीक्षितविरचिता--

आमं पू[१]यति संस्कारो धर्म्यं तेभ्यः प्रतीच्छताम् ॥
तस्मादामं ग्रहीतव्यं शूद्रादपि समाहितैः ।
चण्डालपतितादिभ्यो न भिक्षेदाममप्यणु" इति[२]

 पूयति पुनाति । क्वचित्तथैव पाठः ।

 अविशेषेण सजातीयेष्वेव भिक्षाचरणं व्यासेनोक्तं, तत्र विशेषमाह मनुः--

"वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम्" इति ॥

 ये वेदैर्वेदाभ्यां वेदेन वा । एवं यज्ञैश्च हीना ये न भवन्ति । अथ च स्वेषु वर्णाश्रमविहितकर्मसु प्रशस्ताश्च भवन्ति तेषां गृहेभ्यः प्रयतो नियमवान् , ब्रह्म वेदस्तदर्थं व्रतं चरतीति ब्रह्मचारी, अन्वहं प्रत्यहं भैक्षमाहरेदित्यर्थः । भैक्षमित्यत्र समूहार्थे 'भिक्षादिभ्योऽण्' इत्यण्प्रत्ययः ।

 क्वचिद्भिक्षानिषेधमाह स एव--

"गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पूर्वं पूर्वमुपाश्रयेत्" इति ॥

 गुरोः कुले । गृह इति केचित् ।

 यत्तु तेनैवोक्तं--

"मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत्" ॥

 इति तदुपनयनाङ्गभिक्षापरमिति । प्रथमवाशब्दोऽवधारणार्थः । मात्रादयः शब्दाः प्रसिद्धार्थाः । निजा सोदर्या । अवमानोऽवज्ञानं न दीयत इति प्रत्याख्यानं या न करोति तामपि भिक्षेतेत्यर्थः ।

 तथा चाऽऽश्वलायनः--

"अप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वा" इति ।

 अन्यत्रालाभे गुर्वादिष्वपि भिक्षितव्यमित्याह गौतमः--

"आचार्यज्ञातिगुरुष्वलाभादन्यत्र" इति ।

 आचार्यज्ञातिगुरुष्वपि भिक्षितव्यमन्यत्र भैक्षालाभ इत्यर्थः ।

यमः--

"आहारमात्रादधिकं न क्वचिद्भैक्षमाहरेत् ।
युज्यते स हि दोषेण कामतोऽधिकमाहरेत्" इति ॥

 यः कामत इच्छातोऽधिकं भोजनपर्याप्तितोऽधिकं यद्याहरेत्तदा स दोषेण


  1. ख. घ. ङ. पूर्यति ।
  2. ख. घ. ङ. ति । अ ।