पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२९४

पुटमेतत् सुपुष्टितम्
२९०
[ब्रह्मचारिनियमाः]
भट्टगोपीनाथदीक्षितविरचिता--

 अत्रैकान्नाशित्वनिषेधमाह याज्ञवल्क्यः--

"ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि" इति ।

 ब्रह्मचर्यमष्टाङ्गमैथुनत्यागः ।

 तान्याह दक्षः--

"ब्रह्मचर्यं सदा रक्षेदष्टधालक्षणं पृथक् ।
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ॥
संकल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च ।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥
वैपरीत्ये ब्रह्मचर्यं नष्टं प्राह प्रजापतिः ।

 नष्टमित्यत्र भवतीति शेषः।

न ध्यातव्यं न वक्तव्यं न श्रोतव्यं कथंचन ।
एतैः सर्वैः सुनिष्णातो यतिर्भवति नान्यथा" इति ।

 अभिलाषपूर्वकस्मरणकीर्तनप्रेक्षणानि निषिद्धानि । केलिः परिहासादिबाह्यचेष्टा । गुह्यभाषणं संभोगार्थं रहोमन्त्रणम् । संकल्पो मानसं कर्म । अध्यवसायः संभोगनिश्चय इति । एकमेकस्वामिकम् ।

 स्मृत्यन्तरे भिक्षाशने विशेष उक्तः--

"पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन्" इति ।

 पूजनं प्रणामरूपम् । कुत्रचित्प्रणमेदशनं नित्यमित्येव पाठः । अकुत्सयन्नगर्हयन् । नित्यमित्यनेनैतस्य सार्वत्रिकत्वं सूच्यते ।

धर्मसूत्रे--

"अष्टौ ग्रासा मुनेर्भ[१]क्षः षोडशारण्यवासिनः ।
द्वात्रिंशत्तु गृहस्थस्यापरिमितं ब्रह्मचारिणः" इति ॥

 मुनेः संन्यासिनो भ[२]क्षोऽष्टौ ग्रासाः । अरण्यवासी वानप्रस्थस्तस्य षोडश । द्वात्रिंशद्गृहस्थस्य । ब्रह्मचारिणो विद्यार्थस्य नैष्ठिकस्य च ग्रासनियमो नास्तीत्यर्थः ।

 अन्यदपि तत्रैव--

"आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नताम्" इति ।

 आहिताग्नेरपि गृहस्थत्वेन पूर्वश्लोकेन प्राप्तस्य ग्रासनियमस्य कालयो


  1. ग. र्भक्ष्याः षो ।
  2. ग. भक्ष्या अष्टौ ।