पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२९५

पुटमेतत् सुपुष्टितम्
[ब्रह्मचारिनियमाः]
२९१
संस्काररत्नमाला ।

र्भोजनमित्यस्य कालनियमस्य च नियमो नास्तीत्येतेन ज्ञायते । आहिताग्नेर्बर्हिःसमिदाहरणादेरावश्यकत्वाद्ब्रह्मचारिणश्च गुरुसेवाया अवश्यकर्तव्यत्वात्तद्विविरोधिशरीरनैर्बल्यापादकं काम्यव्रतादिकं नानुष्ठानार्हमित्यर्थः । अनडुद्ग्रहणं दृष्टान्तार्थम् ।

 अत्र पात्रनियममाह हारीतः--

"लौहे मृन्मये वा पात्रे भुञ्जीत" इति ।

 लोहं काञ्चनम् । लोहशब्दस्य काञ्चननामसु निघण्टौ पाठात् ।

 कांस्यपात्रे भोजनं ताम्बूलाभ्यञ्जने च निषेधति प्रचेताः--

"ताम्बूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम् ।
यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत्" इति ॥

 निषिद्धान्नमाहात्रिः--

"हस्तदत्ता तु या भिक्षा लवणं व्यञ्जनानि च ।
भोक्ता ह्यशुचितां याति दाता स्वर्गं न गच्छति" इति ॥

 मनुः--

"व्रते वा देवदैवत्ये पित्र्ये कर्मण्यथापि वा ।
काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते" इति ॥

 अभ्यर्थितः काममश्नीयादित्यन्वयः । अभ्यर्थितः प्रार्थितः ।

 आश्वलायनः--

"अञ्जनाभ्यञ्जने क्षौद्रं गन्धपुष्पाक्षतान्व्रती ।
वर्जयेत्पादुकाछत्रयानोष्णीषरथादिकम्" इति ॥

 कूर्मपुराणे--

"आदर्शं नैव वीक्षेत नाऽऽचरेद्दन्तधावनम् ।
गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः" इति ॥

 वसिष्ठोऽपि--

"चेद्व्याधितः कामं गुरोरुच्छिष्टं भेषजार्थं सर्वं प्राश्नीयात्" इति ॥

 व्याधित इति संजातार्थ इतच्प्रत्ययः । सर्वग्रहणं मांसलशुनाद्यभक्ष्यमात्रसंग्रहार्थम् । तद्भक्षणेनापगतव्याधिरादित्यमुपतिष्ठेत ।

 तथा च बौधायनोऽभक्ष्यभक्षणं प्रकृत्य--

"स यदाऽगदो भवति तदोत्थायाऽऽदित्यमुपतिष्ठते ह सः शुचिषत्" इति ।

 स रोगी । अगद इति पदच्छेदः । ह सः शुचिषदित्येका, ऋक् । धर्मसूत्रे--

"गुरुसमवाये भिक्षायामुत्पन्नायां यमनुबन्धस्तदधीना भिक्षा" इति ।

 यदा द्वितीयं तृतीयं वा वेदमधीयानस्य माणवकस्य गुरुसमवायो भवति