पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२९६

पुटमेतत् सुपुष्टितम्
२९२
[ब्रह्मचारिनियमाः]
भट्टगोपीनाथदीक्षितविरचिता--

गुरवः समवेता भवन्ति तदा भिक्षायामुत्पन्नायां यं गुरुमिदानीमनुबन्धो यतोऽधीते तदधीना भिक्षेति व्याख्यातमुज्ज्वलाकृता ।

अन्यच्च--"समावृत्तो मात्रे दद्यान्माता भर्तारं गमयेद्भर्ता गुरुम्" इति ॥

 कृतसमावर्तनो विवाहात्प्रागर्जितं मात्रे दद्यात् । माता भर्तारं गमयेत्पतिं प्रापयेत् । स च गुरुं माणवकस्येति शेष इति व्याख्यातं तेनैव ।

 बृहस्पतिः--

"अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्" इति ॥

 ब्राह्मणकाम्या ब्राह्मणेच्छा ।

याज्ञवल्क्यः--

"मधुमांसाञ्जनोच्छिष्टशुक्लस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लीलपरिवादादि वर्जयेत्" इति ॥

 मधु क्षौद्रम् । मद्यनिषेधस्य तु सामान्यनिषेधेनैव सिद्धत्वात् । मांसं प्रोक्षिताद्यप्यत्र निषिध्यते । अञ्जनं कज्जलादिनाऽक्ष्णोः । एतच्चाभ्यञ्जनोपलक्षणम् । तेन तैलादिना गात्राणामभ्यङ्गोऽपि निषिद्धः । एतदपि वैद्योपदेशादृते । औषधस्याव्रतघ्नत्वात् । अत्रोच्छिष्टनिषेधो व्याधिराहित्ये ज्ञेयः ।

 स चेद्व्याधित इत्युदाहृतवसिष्ठवाक्यात् ।

"गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः"

 इत्युदाहृतकूर्मपुराणवाक्याच्च ।

 शुक्लं निष्ठुरवाक्यम् ।

"शुक्ला वाचो विवर्जयेत्" इति गौतमोक्तेः ।

 उदयेऽस्तमये च भास्करावलोकनं न कार्यं, तदुक्तं धर्मसूत्रे--

"उद्यन्तमस्तं यन्तमादित्यं दर्शने विवर्जयेत्" इति ।

 उदयसमयेऽस्तसमये चाऽऽदित्यं न पश्येदित्यर्थः ।

 मनुरपि--

"नेक्षेतोद्यन्तमादित्यमस्तं यन्तं कदाचन ।
नोपरक्तं न वारिस्थं न मध्यं नभसो गतम्" इति ।

 अश्लीलं मर्मभाषणम् । परिवादो निन्दा । आदिशब्देन परिहासादि ।

यमः--

"खट्वासने च शयनं वर्जयेद्दन्तधावनम् ।
स्वपेदेकः कुशेष्वेव न रेतः स्कन्दयेत्क्वचित्" इति ।

मनुः--

"द्यूतं च जनवादं च परिहासं तथाऽनृतम् ।
स्त्रीणां च प्रेक्षणालम्भावुपघातं परस्य च ।
खट्वासने च शयनं ब्रह्मचारी विवर्जयेत्" इति ।