पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३०३

पुटमेतत् सुपुष्टितम्
[प्राजापत्यादिकाण्डानामनुक्रमणी]
२९९
संस्काररत्नमाला ।

शानुवाकाः । समिद्धो अञ्जन्गायत्री कस्त्वेति त्रयोऽनुवाकाः । प्रयासाय स्वाहा चित्त संतानेनेति द्वावनुवाकौ । प्रजापतेरक्षि पवस्व वाजसातय इत्यनुवाकौ । यो वा अश्वस्य मेध्यस्य शिर इत्यनुवाकः । सांग्रहण्या प्रजापतिरश्वमेधमसृजतेति प्रश्नद्वयम् । अङ्गिरसो वै सत्रमासतेत्यादयः प्रजननप्रश्नान्तर्गताः सप्तानुवाकाः । साध्या वै, इत्यारभ्य दशानुवाकाः । प्रजवं वा इत्यारभ्य दशानुवाकाः । बृहस्पतिरकामयत श्रन्मे देवा इत्यारभ्यैकादशानुवाकाः । गावो वा इत्यारभ्य दशानुवाकाः । नवैतान्यहानि भवन्तीत्यादिः प्रश्नशेषः । यस्य प्रातःसवन इत्यादयस्त्रयोऽनुवाकाः । जुष्टो दमूना इति प्रश्नद्वयम् । पीवोन्नामिति प्रश्नः । भर्ता सन्हरि हरन्तमित्यनुवाकौ । अग्निर्नः पात्विति प्रश्नः । अग्नेः कृत्तिका इत्यनुवाकत्रयम् । स्वाद्वीं त्वेतिप्रश्नः । युव सुराममित्यनुवाकः । सर्वान्वा इति प्रश्नः । अञ्जन्तीति प्रश्नः । ब्रह्मणे ब्राह्मणमिति प्रश्नः । तुभ्यं ता इत्यादयश्चत्वारोऽनुवाकाः । इति वैश्वदेवकाण्डम् ।

सशान्तिकः सह वै देवानामिति प्रश्नः स्वायंभुवं काण्डम्


भद्रं कर्णेभिरिति प्रश्न आरुणं काण्डम् ।

 शं नो मित्र इति पूर्वोत्तरशान्तिसहितः शीक्षां व्याख्यास्याम इति प्रश्नः सा हित्यो देवता उपनिषदः । सशान्तिकोऽम्भस्य पार इति प्रश्नो याज्ञिक्यो देवता उपनिषदः । ब्रह्मविद्भृगुर्वै वारुणिरिति प्रश्नद्वयं सशान्तिकं वारुण्यो देवता उपनिषदः । मातृदत्तेन तु स्वायंभुवकाण्डमात्रमधिकं पाक्षिकत्वेन संगृहीतम् । आरुणादिकाण्डानि तु नैव संगृहीतानि । तत्कल्पे भद्रप्रश्न आग्नेयकाण्डेऽन्तर्भवति । काठकत्वसामान्यात् । अवशिष्टाः पञ्च प्रश्ना वैश्वदेवकाण्डस्यान्त्यत्वात्तत्रैवान्तर्भवन्ति । स्वायंभुवकाण्डस्य पृथक्त्वपक्षे तस्यैवान्त्यत्वात्तत्रान्तर्भावो ज्ञेयः । एतद्यथाकाण्डमध्ययनम् ।

 रुद्र आरण्यके च विशेषोऽनुक्रमणिकायाम्--

"होतृप्रवर्ग्यकाण्डं च याश्चोपनिषदो विदुः ।
अरुणाम्नायविधी चैव काठके परिकीर्तितौ ॥
रुद्रो नारायणश्चैव मेधो यश्चैष पित्रियः ।
रुद्रमारण्यकं चैव नाव्रती श्रोतुमर्हति" इति ॥