"द्वितीयकाण्डस्य भवेद्ब्राह्मणे यस्तृतीयकः । |
इतिवचनद्वयसंवादादयमर्थो लभ्यते । सूक्तेषु मध्ये यत्सूक्तं सौर्यं सूर्यदेवताकं सूर्यो देवीमुषसमित्यारभ्य सूर्य आत्मा जगतस्तस्थुषश्चेत्यन्तम् । यश्च पित्रियो मेधः परे युवा समिति प्रश्नः स दिवाकीर्त्य इत्यर्थः । कारीर्यश्चापि पित्र्यश्चेत्यनेनैव सिद्धे मेधो यश्चैष पित्रिय इति वचनं परे युवा समिति प्रश्नस्य पित्रियो मेध इति संज्ञासिद्ध्यर्थम् । काठकानि, कठशाखाप्रवर्तकेन मुनिनोक्तत्वात्काठकानीत्युच्यन्ते । तानि चाष्टौ सावित्रनाचिकेतचातुर्होत्रवैश्वसृजारुणकेतुकाख्याः पञ्च चितयः । तत्र संज्ञानमिति प्रश्नः सावित्रचितिः । लोकोऽसीतिप्रश्नो नाचिकेतचितिः । ब्रह्म वै चतुर्होतार इत्यनुवाकश्चातुर्होत्रचितिः । यच्चामृतमित्यादयश्चत्वारोऽनुवाका वैश्वसृजचितिः । भद्रं कर्णेभिरितिप्रश्न आरुणकेतुकचितिः । एताः पञ्च चितयः । दिवःश्ये[२]न्याख्येष्टिसमुदाय एकः । अपाद्याख्येष्टिसमुदायोऽपरः । तत्र तुभ्यं देवेभ्य इति द्वावनुवाकौ दिवःश्ये[३]न्याख्येष्टिसमुदायः । तपसा देवा देवेभ्यो वा इति द्वावनुवाकावपाद्याख्येष्टिसमुदायः । इति द्वाविष्टिसमुदायौ । आम्नायविधिः स्वाध्यायब्राह्मणमष्टमम् । तच्च सह वै देवानामितिप्रश्नात्मकम् । आम्नायस्याऽऽम्नायाध्ययनस्य विधिर्बाह्मणं यस्मिन्प्रश्ने स आम्नायविधिस्तम् । अनेन कृत्स्नस्य प्रश्नस्य संग्रहः सिद्धो भवति । एतान्यष्टौ काठकानि भद्रं कर्णेभिरित्यादीनि नारायणान्तान्यारण्यकानि च दिवाकीर्त्यानि । दिवैव कीर्त्यानि कीर्तितव्यानि न तु रात्रावित्यर्थः । तैत्तिरीयशाखायामेतावन्त्येव दिवाकीर्त्यानीत्यवधारणा कर्तव्येत्यन्त्यार्धार्थः ।
एतेषां काण्डर्षीणां प्रत्यहं तर्पणं कर्तव्यं, तदुक्तं तत्रैव--
"अथ काण्डऋषीनेतानुदकाञ्जलिभिः शुचिः । |
अथ सर्वकाण्डाध्ययनानन्तरम्, अव्यग्रः शुचिश्च सन्नित्यं प्रत्यहमुदकाञ्जलिभिरेतान्काण्डर्षीस्तर्पयेत् । पर्वस्वमावास्यापौर्णमासीष्वष्टमीषु च ।अन्नैरपि तर्पयेदित्यर्थः । एतच्च सूत्रानुक्तत्वात्कृताकृतम् । करणे फलाधिक्यमकरणे प्रत्यवायाभाव इति द्रष्टव्यम् । सारस्वतपाठेनाध्ययनेऽपि काण्डानुक्रमज्ञानमपेक्षितमेवेत्येतदर्थे वचनं तु प्रागेवोदाहृतम् ।