३०४
[वेदाध्ययनस्याऽऽवश्यकता]
भट्टगोपीनाथदीक्षितविरचिता--
स्मृतिसारमुच्चये--
"वेदो यस्य शरीरस्थो न स पापेन लिप्यते ।
वेदात्मा स तु विज्ञेयः शरीरैः किं प्रयोजनम् ॥
वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः ।
तावन्ति हरिनामानि कीर्तितानि न संशयः ॥
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नाम सर्वकर्मबहिष्कृतः ॥
नित्यं नैमित्तिकं काम्यं यच्चान्यत्कर्म वैदिकम् ।
अनधीतस्य विप्रस्य सर्वं भवति निष्फलम् ॥
अनधीतो द्विजो यस्तु शास्त्राणि तु बहून्यपि ।
शृणोत्याब्रह्मणो नाशं नरकं स प्रपद्यते ॥
नाधीतवेदो यो विप्र आचारेभ्यः प्रवर्तते ।
नाऽऽचारफलमाप्नोति यथा शूद्रस्तथैव सः ॥
अनधीतस्य विप्रस्य पुत्रो वाऽध्ययनान्वितः ।
शूद्रपुत्रः स विज्ञेयो न वेदफलमश्नुते ॥
|
अध्ययनान्वितो वेदाध्ययनान्वितः ।
अनभ्यासाच्च वेदानामाचारस्य च लङ्नात् ।
आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति" इति ।
|
बृहन्नारदीये--
"अनधीत्य तु यो वेदाञ्शास्त्राणि पठते द्विजः ।
शूद्रतुल्यः स विज्ञेयो नरकायोपपद्यते" इति ॥
|
अन्यच्च--
"शब्दब्रह्ममयो विष्णुर्वेदः साक्षाद्धरिः स्मृतः ।
वेदाध्यायी तु यो विप्रः सर्वान्कामानवाप्नुयात्" इति ॥
|
तस्माद्ब्राह्मणेनावश्यं वेदोऽध्येतव्यः । तत्र वेदाभ्यासः पञ्चधा ।
तथा च स्मृतिः--
"वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः ।
तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा" इति ।
|
तत्राप्यादौ परम्परागतो वेदः पठनीयः । तथा च वसिष्ठः--
"पारम्पर्यागतो येषां वेदः सपरिबृंहणः ।
प्रथमं तमधीयीत तच्छाखं कर्म चाऽऽचरेत्" इति ॥
|