पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३०९

पुटमेतत् सुपुष्टितम्
[ब्राह्मणस्य वेदाध्यनावश्यकता]
३०५
संस्काररत्नमाला ।
(स्वशाखात्यागपूर्वकपरशाखाध्ययने दोषः )
 

 परिबृंहणानि छन्दआदीन्यङ्गानि मीमांसादीन्युपाङ्गानि च । तैः सहितः पारम्पर्यागतो वेदो यस्तं प्रथममधीयीतेत्यर्थः ।

 वाराहे--

"स्वशाखां प्रथमं यस्तु पठित्वाऽन्यां पठेद्यदि ।
प्रत्यक्षरं तु लभते गायत्र्या द्विगुणं फलम्" इति ॥

 व्यासः--

"तपोविशेषैर्विविधैर्व्रतैश्च श्रुतिचोदितैः ।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना" इति ॥

 रहस्यमुपनिषत् ।

 स्वशाखात्यागपूर्वकपरशाखाश्रयणे दोषमाह वसिष्ठः--

"यः स्वशाखां परित्यज्य परशाखां समाश्रयेत् ।
स शूद्रवद्बहिः कार्यः सर्वकर्मसु साधुभिः ॥
न जातु परशाखोक्तं बुधः कर्म समाचरेत् ।
आचरन्परशाखोक्तं शाखारण्डः स उच्यते ॥
अधीत्य शाखामात्मीयां परशाखां ततः पठेत् ।
तच्छाखीयैस्तु संस्कारैः संस्कृतो ब्राह्मणो भवेत्" इति ॥

 जातु कदाचिदपीत्यर्थः । तच्छाखीयैः स्वशाखाप्रोक्तैः । शाबीयब्राह्मण उक्तत्वादष्टौ विकृतीरपि सति सामर्थ्ये पठेत् । तासां लक्षणानि तैत्तिरीय[१]बह्वृच्यप्रातिशाख्यशिक्षादिभ्योऽवगन्तव्यानि । तैत्तिरीयाणां स्वप्रातिशाख्ये जटान्तविकृतिविषय एव प्रमाणोपलम्भात्सत्यपि सामर्थ्ये तावदेव वाऽध्ययनम् ।

 संहितापदक्रमाध्यनस्य काम्यत्वमप्युक्तं ब[२]ह्वृचारण्यके--

"अन्नाद्यकामो निर्भुजं ब्रूयात्स्वर्गकामः प्रतृण्णमुभयकाम उभयमन्तरेण" इति ।

 द्वयोः पदयोरक्षरयोर्वा यः संधिस्तस्याविच्छेदेनाध्ययनं तन्निर्भुजं संहितापारायणमुच्यते । द्वयोः पदयोः संधिराहित्येनोच्चारणं प्रतृण्णं पदपारायणम् । निर्भुजं प्रतृण्णं चैतदुभयमन्तरेण न केवलं निर्भुजं न केवलं प्रतृण्णमेतादृशं क्रमपारायणमित्यस्यार्थः । शाखाभेदस्त्वध्ययनभेदात्सूत्रभेदाद्वा वैजयन्तीकारैरुपोद्घातग्रन्थे प्रपञ्चितः ।

 एतच्छाखाध्येतृऋषिपरम्परा, एतच्छाखायाः शकुनिवृषभवृक्षस्वरूपत्वं चोक्तं काण्डानुक्रमणिकायाम्--

"वैशम्पायनो यास्कायैतां शाखां प्राह पैङ्गये ।
यास्कः पैङ्गिस्तित्तिरय उखाय प्राह तित्तिरिः ॥


३९
 
  1. ख. घ. ङ. यबाह्वृ ।
  2. ख. घ. ङ. पारशाख्ये ।