अथैतच्छाखात्मकस्य वेदस्य शकुनिवृषभस्वरूपमाह-- त्रिशीर्षाणमित्यारभ्य चतुर्होतृललामवानित्यन्तेन । त्रिशीर्षाणमर्कांसं नवात्मानमष्टपुच्छं द्वात्रिंशत्पक्षमेतादृशं शकुनिं समन्वीक्षेत्, यो जानीयात्स ब्रह्मणः संमतं ब्रह्मलोकं गच्छेदित्यर्थः । ब्रह्मसंमितमितिपाठे शकुनेर्विशेषणम् । उत्तमा उपनिषदः शीक्षा ब्रह्मविद्भृगुरिति प्रश्नत्रयम् । एतासामुत्तमत्वं तु बाहुल्येन ब्रह्मज्ञानोपयोगित्वात् । अर्कौ प्रवर्ग्यकाण्डे अंसौ स्कन्धौ यस्य । भुवनस्य पतिः प्रजापतिः "प्रजापतिर्वै भुवनस्य पतिः" इति श्रुतेः । प्रजापतेर्यानि नव काण्डानि शाखादिं याजमानं चेत्यादिना नवाऽऽहुः कस्य तद्विद इत्यन्तेनोक्तानि तानि तस्याऽऽत्मा । कठशाखाप्रवर्तकेन मुनिना प्रोक्तान्यष्टौ काठकानि पुच्छे पुच्छस्थाने विदुः । वेदविद इति शेषः । यदपि च शेषं काण्डं शेषभूतानि काण्डानि द्वात्रिंशत्तानि पक्षौ तस्य शकुनेः ।
इति शकुनिस्वरूपम् ।
अथ वृषभस्वरूपम् ।
मन्त्रात्मा मन्त्रभाग आत्मा यस्य । घर्मौ प्रवर्ग्यकाण्डे ते शृङ्गे यस्य । अष्टौ काठकानि आस्यं मुखं यस्य सोऽष्टास्यः । उपनिषदः ककुद्यस्य । विध्यङ्गो ब्राह्मणान्यवशिष्टान्यङ्गानि यस्य । चतुर्होतारश्चित्तिः स्रुगित्यादयो मन्त्राः सब्राह्मणा ललामानि भूषणानि यस्य । एतादृशमृषभस्वरूपं यो वेद स स्वर्वित्स्वर्गविद्भवेदित्यर्थः । शाखा स्वशाखाऽऽद्या येषां ते स्वशाखाद्या अन्ये वेदास्त आदिर्मूलं यस्य तम् । अत्र तद्गुणसंविज्ञानबहुव्रीहिर्ज्ञेयः । विपाप्मानं विगतकल्मषम् । विधिमन्त्रमयं मन्त्रब्राह्मणात्मकम् । सकं सुखसहितम् । समो वैषम्यरहितोऽन्तः प्रान्तो यस्य । एतादृशं दिवः स्वर्गस्य पन्थानं मार्गं मनीषिण ऋषय आहुः । वेदाध्ययनतदुक्तकर्माचरणमेव स्वर्गस्य पन्था इति तात्पर्याः ।
अथ वृक्षस्वरूपम् ।
रहस्यमुपनिषदो मूलं यस्य । ऋचः पर्णानि यस्य । यजूंषि पुष्पाणि प्रवालानि च यस्य । सामान्यथर्वाणः स्कन्धाः शाखाश्च यस्य । विप्रा एव भ्रमरास्तैः सेवितः । यज्ञकर्माण्येव फलानि यस्य । श्रीमाञ्शोभावानेष ब्राह्मो ब्रह्मरूप एव साक्षाद्भवति । यस्तं वृक्षं विद्याज्जानीयात्स ऋषिभिः सहितो विप्रोऽस्मिँल्लोके कीर्तिं पुण्यां कीर्तिमाप्त्वा प्राप्य