पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३१३

पुटमेतत् सुपुष्टितम्
[वेदशास्त्राद्यध्ययनमुहूर्तः]
३०९
संस्काररत्नमाला ।
( वेदाध्ययने नक्षत्रवारादि )
 

 वसिष्ठः--

"रविवारे तु पूर्वाह्णे विद्यारम्भो विधीयते ।
चन्द्रवारेऽपराह्णे तु विद्या गुर्वी विधीयते" इति ॥

 नक्षत्राण्याह महेश्वरः--

"हस्तादित्रितयं तथा निर्ऋतिभे पूर्वान्त्यभेष्वश्विभे
मित्रर्क्षे च मृगादिपञ्चसु शुभः प्रारम्भ आद्यः स्मृतः ।
विद्यानां हरिभत्रये च दिवसे सूरेर्भृगोर्वा दिनेऽ-
नध्यायाख्यतदाद्यवर्जिततिथौ केन्द्रस्थितैः सद्ग्रहैः" इति ॥

 हस्तादित्रितयं हस्तचित्रास्वातयः । निर्ऋतिभं मूलनक्षत्रम् । पूर्वा पूर्वात्रयम् । अन्त्यभं रेवतीनक्षत्रम् । अश्विभमश्विनीनक्षत्रम् । मित्रर्क्षमनूराधानक्षत्रम् । हरिभत्रयं श्रवणधनिष्ठाशततारकाः । सूरिर्बृहस्पतिः । भृगुः शुक्रः । अनध्यायदिनान्यनध्यायाद्यदिनानि च वर्जयित्वा केन्द्रस्थानस्थितैः सद्ग्रहैः शुभग्रहैर्युतैर्लग्नैर्युतासु तिथिषु च विद्यानामाद्यः प्रथमः प्रारम्भः कर्तव्य इत्यर्थः ।

 अन्यच्च राजमार्तण्डः--

"विद्यारम्भः प्रशस्तो भवति मधुरिपौ प्राप्तबोधे शशाङ्के
शस्ते तीक्ष्णद्युतौ च त्रिदशपतिगुरावुद्गते चाथ शुक्रे ।
स्वाध्याये सिंहसंस्थं खरकिरणयुतं देवपूज्यं विहाय
शुक्रादित्यज्ञवारे त्रिदशपतिगुरौ केन्द्रसंस्थे न पापे" इति ॥

 मधुरिपुर्विष्णुः । तस्मिन्प्राप्तबोधे सति । शशाङ्कश्चन्द्रस्तस्मिन्प्रशस्ते । तीक्ष्णद्युतिः सूर्यस्तस्मिंश्च प्रशस्ते सति । त्रिदशपतिगुरुर्बृहस्पतिस्तस्मिंञ्शुक्रे चोद्गतेऽनस्तगे सति । खरकिरणः सूर्यस्तेन युतं देवपूज्यं बृहस्पतिं सिंहस्थं विहाय स्वाध्याये स्वाध्यायदिवसे । शुक्रादित्यबुधान्यतमवारयुते त्रिदशपतिगुरुर्बृहस्पतिस्तस्मिन्केन्द्रसंस्थे च सति विद्यारम्भः प्रशस्तो भवतीत्यर्थः । न पापे न निषिद्धस्थानस्थिते ।

"अनध्यायाः प्रदोषाश्च षष्ठी रिक्तास्तथैव च ।
वर्जनीयाः प्रयत्नेन विद्यारम्भे तु सर्वदा" इति ॥

 अक्षरारम्भे वक्ष्यमाणो यो गणपतिहरिलक्ष्मीगुरुपूजादिविधिः सोऽत्रापि कार्यः ।

 शास्त्रविशेषे वारविशेषमाह नृसिंहः--

"सर्ववेदांश्च शास्त्राणि चाभ्यसेत्सूर्यवासरे ।
कामशास्त्रं महातन्त्रं रोगघ्नं वैष्णवं तथा ॥