पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३१५

पुटमेतत् सुपुष्टितम्
[ अध्यापकधर्माः ]
३११
संस्काररत्नमाला ।

अथाध्यापकधर्माः ।

 तत्र यमः--

"सततं प्रातरुत्थाय कृतनित्यक्रियो गुरुः ।
प्राणायामत्रयं कुर्याच्छिष्यमध्यापयेत्ततः" इति ॥

 मनुरपि--

"अध्यापयिष्यमाणस्तु यथाकालमतन्द्रितः ।
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चाऽऽरमेत्" इति ।

 अध्यापयिष्यमाण इत्यत्र गुरुरिति शेषः । आरमेदित्यत्रान्तर्भावितो णिच् । तेन शिष्यमारमयेदित्यर्थो लभ्यते । अथवाऽऽरमेदिति यथाश्रुतमेव । अध्यापनान्निवर्तेतेत्यर्थः ।

 स्मृतौ--

"एकः श्रोता दक्षिणतो निषीदेद्द्वौ वा भूयांसस्तु यथावकाशम्" इति ।

 अस्यार्थः--एकः श्रोताऽध्येता दक्षिणत उपविशेदथवा द्वौ शिष्यौ । अथवा भूयांसो बहवः शिष्या यथावकाशमनियम उपवेशन इति ।

स्मृत्यन्तरे--

"आसने तु समासीन आचान्तः प्राङ्मुखो गुरुः ।
प्रणवं प्राक्समुच्चार्य शिष्यमध्यापयेत्सदा" इति ॥

 तत्रैव--

"अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् ।
शिष्याणामुपदेशार्थं कुर्याद्वृत्तिं विलम्बिताम्" इति ॥

 अभ्यासार्थे वेदाभ्यासार्थे द्रुतां त्वरितां वृत्तिं जानीयात् । प्रयोगार्थे कर्मार्थे मन्त्रपाठे मध्यमां वृत्तिं जानीयात् । शिष्योपदेशार्थे शिष्याध्यापनार्थे विलम्बितां वृत्तिं जानीयादित्यर्थः ।

 याज्ञवल्क्यः--

"कृतज्ञाद्रोहिमेधाविशुचिकल्पानसूयकाः ।
अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः" इति ॥

 कृतमुपकारं जानन्तीति कृतज्ञाः । अद्रोहिणो द्रोहरहिताः । मेधाविनो धारणावन्तः । शुचयः शुद्धाः । कल्पा नीरोगाः । अनसूयका गुणिनां दोषानाविष्करणशीलाः । शक्ताः शुश्रूषायाम् । आप्ता अप्रतारकाः । ज्ञानदा विद्याप्रदाः । वित्तदा अर्पणपूर्वमर्थदातारः । धर्मग्रहणमर्थोपलक्षणम् । नन्वर्थतोऽप्यध्याप्य इति न संगच्छते । भृताध्ययनभृतकाध्यापनयोः प्रायश्चित्तस्मरणात् ।

 तथा च पराशरप्रायश्चित्तकाण्डे विष्णुः--

"भृतकाध्ययनं कृत्वा भृतकाध्यापिनस्तथा ।
अनुयोगप्रदानेन त्रीन्पक्षान्यावकं पिबेत्" इति ॥

 मैवम् । भृतिसंकल्पपूर्वकमध्यापनं प्रतिषिद्धमितरस्य वृत्तिहेतुत्वेनाविरोधात् ।