अत एव मनुः--
"धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । |
विहिताननुष्ठात्रे नास्तिकाय वा विद्यादाने धर्माभाव इत्यर्थः ।
यमोऽपि--
"धर्मार्थौ यत्र न स्यातां न शुश्रूषाऽपि तद्विधा । |
अनन्तरोदाहृतभृतकाध्यापनं कृत्वेतिवाक्यगतस्यानुयोगशब्दस्यार्थो मिताक्षरायाम्--
"अधीयानस्य विप्रादेस्तिरस्कारोऽनुयोगः" इति । |
मनुर्ज्ञानदोऽप्यध्याप्य इत्याह--
"आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः । |
असूयकादयो नाध्याप्या इत्याह विद्यैव--
"विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्मि । |
श्रुत्यन्तरे तु--असूयकायानृजवे शठायेति पाठान्तरम् । असूयकायानृजवेऽयतायेत्यत्रायतायेति पदच्छेदः । विद्या ब्राह्मणं प्रत्याजगाम पश्चात्तं प्रार्थयामास । हे ब्राह्मण त्वं मां गोपायानधिकारसकाशाद्रक्ष । ते तव शेवधिर्निधिरहमस्मि । निधिर्यथाऽभीष्टप्रदाता तथाऽहमस्मीत्यर्थः । प्रार्थ्यमाह--असूयकायेत्यादिना । जातं निश्चयं गुरवे प्रदर्श्य तद्दूषणार्थमेवैदंपर्येण यतमानो हेत्वाभासोपन्यासशीलो दुष्टोऽसूयकः । गुरूक्तिः सर्वाऽपि यथार्थैवेति ज्ञानं विश्वासः । स नास्ति यस्य सोऽविश्वासोऽनृजुश्च । गुरूक्तिसमनन्तरमेव जातनिश्चयोऽपि यः पूर्वमेवैतज्ज्ञातचरमिति, इदानीमपि न ज्ञातमिति वा प्रदर्शयितुं यतते स शठः । अयतायेतिपाठेऽशुचय इत्यर्थः । तेन पाठद्वयमपि संग्राह्यम् । एतादृशाय पुरुषाय न मां ब्रूयाः । तथा तथा सति वीर्यवत्यभीष्टफलदात्री स्यां नान्यथेति श्रुत्यर्थः ।
नारदः--
"गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । |
चतुर्थं साधनम् ।
- विष्णुः--"नापरीक्षितं याजयेन्नाध्यापयेन्नोपनयेद्यदि तु यः
- प्राह यस्तु पृच्छति तयोरन्यतरः प्रैति दोषं चाधिगच्छति" इति ।