परुन्ध्यादनापत्स्वन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुण्यमापद्यमानः" इति ।
तस्मिन्नन्तेवासिनि गुरोर्वृत्तिप्रकारो वक्ष्यते । एनं शिष्यं पुत्रमिवाभ्याहितः स्यादित्यनुकाङ्क्षन्सर्वेषु धर्मेषु किंचिदप्यनपच्छादयन्नविगूहयन्सुयुक्तः सुष्ट्ववहितस्तत्परो भूत्वा विद्यां ग्राहयेत् । न चैनं शिष्यमध्ययनविघ्नेनाऽऽत्मप्रयोजनेषूपरुन्ध्यादनापत्सु । उपरोधोऽस्वतन्त्रीकरणम् । अनापत्स्वितिवचनादापद्यध्ययनविघातेनाप्युपरोधे न दोषः । आपद्यमान इत्यन्तर्भावितो ण्यर्थः । योऽन्तेवासी विनिहितात्मा द्वयोराचार्ययोर्विनिहितात्मा गुरावनैपुण्यमापादयति नायं प्रदेयः सम्यगुक्त इति सोऽन्तेवासी न भवति स त्याज्य इत्यर्थ इति व्याख्यातं तेनैव ।
- तथा--
"अपराधेषु चैन सततमुपालभेताभित्रासोपवासोदकोपस्पर्शनान्यदर्शनमिति |
अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेरन्नि(ते)दमयुक्तं त्वया कृतमिति । अभित्रासो भयोत्पादनम् । उपवासो भोजनेऽन्नालाभः । उदकोपस्पर्शनं शीत उदके स्नापनम् । अदर्शनं यथाऽसावात्मानं न पश्यति तथा करणं गृहप्रवेशनिरोधः । सर्वत्र ण्यन्तात्प्रत्ययः । इत्येते दण्डाः शिष्यस्य यथामात्रं यथापराधं तदनुरूपं व्यस्ताः समस्ताश्चाऽऽनिवृत्तेः, यावदसौ[१] नतोऽपराधान्निवर्तते तावदेते दण्डा इति व्याख्यातं तेनैव[२]
शिष्यताडनप्रकारो मनुनोक्तः--
"भार्या पुत्रश्च दासश्च शिष्यो भ्राता च सोदरः । |
अत्र सोदरविशेषणाद्भिन्नोदरे भ्रातरि ताडनं प्रतिषिद्धं भवति ।
वृद्धगौतमोऽपि--
"शिष्यशिष्टिरवधेनाशक्तौ रज्जुवेणुदलाभ्यां |
शिष्टिः शासनम् । अवधेन प्रहारं विना । प्रहारं विना शासनासंभवे प्रहारेणैव शासनम् । तच्च रज्जुवेणुदलाभ्यां तनुभ्यां सूक्ष्माभ्यां न तु स्थूला