पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३१९

पुटमेतत् सुपुष्टितम्
[अध्येतृधर्माः]
३१५
संस्काररत्नमाला ।

भ्याम् । तनुभूतरज्जुवेणुदलव्यतिरिक्तेनान्येन पाषाणखण्डादिना यः शिष्यं हन्ति प्रहरति राज्ञा स शास्य इत्यर्थः । एतच्च शिरसि न कार्यम् ।

 तथा च मनुः--

"पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथंचन ।
अतोऽन्यथा तु प्रहरंश्चोरस्याऽऽप्नोति किल्बिषम्" इति ।

 उत्तमाङ्गं शिरः ।

यमः--

"योऽर्थार्थी सन्द्विजोऽध्यायान्पाठयेत्तु विधानतः ।
अनध्याये च तं प्राहुर्वेदवि[]प्लविकं बुधाः" इति ॥

 अध्याया वेदाः । अनध्याये चेत्यत्र चकारः पूर्वार्धस्थस्य द्विजोऽध्यायान्पाठयेदित्यस्यानुकर्षणार्थः ।

 वसिष्ठः--

"यो हि विद्यामधीत्यार्थिने न संप्रददाति न स धर्मभाग्भवति" इति ।

 विद्यादानस्य फलमाह संवर्तः--

"विद्यादानेन महति ब्रह्मलोके महीयते" इति ।

इति संक्षेपेणाध्यापकधर्माः ।

अथ संक्षेपेणाध्येतृधर्माः ।

 तत्र मनुः--

"अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः ।
कृतब्रह्माञ्जलिश्चैव लघुवासा जितेन्द्रियः" इति ।

 अत्र द्विराचमनमुक्तं कूर्मपुराणे--

"स्नानान्तेऽध्ययनारम्भे कासश्वासागमे तथा ।
चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः ।
संध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत्ततः" इति ॥

 ब्रह्माञ्जलिस्वरूपं तु स एवाऽऽह--

"संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः" इति ।

 संहत्य संहतौ कृत्वेत्यर्थः ।

 अत्राऽऽदावुपसंग्रहणमुक्तं धर्मसूत्रे--

"उदिते त्वादित्य आचार्येणाध्ययनाय समेत्योपसंग्रहणम्" इति ।

 तत्प्रकारस्तूपनयनप्रकरण उक्तः ।


  1. ग. विक्रवि(यि)कं ।