पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३२०

पुटमेतत् सुपुष्टितम्
३१६
[अध्येतृधर्माः]
भट्टगोपीनाथदीक्षितविरचिता--

 एतच्चान्तेऽपि कर्तव्यम्--

"ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा" इति मनूक्तेः ।

 ब्रह्म वेदस्तस्याऽऽरम्भ इत्यर्थः ।

 अध्ययनारम्भ ओंकारोऽपि वक्तव्यः,"ओंकारः स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्यते" इतिधर्मसूत्रात् ।

 ओंकारः प्रणवः । ब्रह्म वेदः । एतदादि, ओंकारादि । प्रतिपद्यत आरभते । अन्यत्स्पष्टमिति व्याख्यातमुज्ज्वलाकृता ।

 भारद्वाजशिक्षायाम्--

"प्रश्नानुवाकाद्यारम्भे सविसर्गोच्चको हरिः ।
न संधिः प्रणवे[१] नित्यं विरामे स्वरितो भवेत्" इति ।

 प्रश्नाश्चानुवाकाश्च प्रश्नानुवाकाः । तेषु य आद्यः प्रश्नोऽनुवाको वा तस्याऽऽरम्भ इत्यर्थः । प्रश्नानुवाकारम्भ इत्येतावदुच्यमाने सर्वपश्नानुवाकारम्भे वक्ष्यमाणो विधिः स्यात्स मा भूदित्येतदर्थमाद्यग्रहणम् । सविसर्गश्चोच्चकश्च सविसर्गोच्चकः । सविसर्गः प्रथमैकवचनान्त इत्यर्थः । उच्च एवोच्चकः । उदात्त इति यावत् । एतादृशो हरिशब्दः प्रश्नानुवाकाद्यारम्भे वक्तव्यः । प्रणवेऽग्रे सति नित्यं सदा हरिशब्दे संधिर्न कर्तव्य इत्यर्थः । विरामेऽवसानेऽध्ययनसमाप्तौ तु हरिशब्द उच्चक उदात्तो न भवति किंतु नित्यं सदा स्वरितः, अन्त्यस्वरित एव भवेत् । संध्यभावोऽप्यत्रास्त्ये[२]वेति ।

 प्रणवानन्तरं व्याहृतीस्तदनन्तरं सावित्रीं चानुब्रूयात् ।

"प्रणवं प्राक्प्रयुञ्जीत व्याहृतीस्तदनन्तरम् ।
सावित्र्याश्चानुवचनं ततो वृत्तान्तमारभेत्" इति संवर्तोक्तेः ।

 वृत्तान्तोऽध्ययनम् ।

 प्रणवात्पूर्वं प्राक्कूलदर्भासनोपवेशनं पवित्रैः पावनं प्राणायामत्रयं चाऽऽह मनुः--

"प्राक्कूलान्पर्युपासीत पवित्रैश्चैव पावितः ।
प्राणायामैस्त्रिभिः पूतस्तत ओंकारमर्हति" इति ।

 प्राक्कूलाः प्रागग्रा दर्भाः ।

 पवित्रपावनं गौतम आह--"प्राणोपस्पर्शनं दर्भैः" इति ।


  1. ङ. वे त्वत्र वि ।
  2. ङ. स्त्येव । प्र ।