पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३२३

पुटमेतत् सुपुष्टितम्
[अध्येतृधर्माः]
३१९
संस्काररत्नमाला ।

 वैश्वदेवमन्त्राध्ययने व्रतविशेष उक्तो धर्मसूत्रे--

"तेषामुपयोगे द्वादशाहं ब्रह्मचर्यमधःशय्या क्षारलवणमधुमांसवर्जनं
चोत्तमस्यैकरात्रमुपवासः" इति ।

 तेषां होमानां बलीनां च ये मन्त्रास्तेषामुपयोगे नियमपूर्वके ग्रहणे द्वादशाहं ब्रह्मचर्यं मैथुनवर्जनमधःशय्या स्थण्डिलशायित्वं क्षारलवणादिवर्जनं च भवति । उपयोक्तुरेव व्रतम् ।

 अन्ये तु पत्न्या अपीच्छन्ति, उपयोगः प्रथमप्रयोगः । तत्र पत्न्या अपि सहाधिकार इति वदन्तः । उत्तमस्योत्तमेन वैहायसमितिवक्ष्यमाणस्य ये भूताः प्रचरन्तीत्यस्यैकरात्रमुपवासः कर्तव्य इति व्याख्यातमुज्ज्वलाकृता । अस्मिन्व्याख्यान उपयोक्तुरेव व्रतमित्यारभ्य वदन्त इति मतान्तरप्रदर्शनम् । नियमपूर्वकं ग्रहणं गुरोः सकाशाद्विद्याग्रहणं तदर्थमित्यर्थः ।

 भद्रप्रपाठकाध्ययने विशेषः संवत्सरमेतद्व्रतं चरेदित्यनुवाक उक्तः ।

 प्रवर्ग्यप्रपाठकाध्ययने विशेषः प्रवर्ग्यसूत्रे--

 "अवान्तरदीक्षां व्याख्यास्याम उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽपराह्णे केशश्मश्रूणि वापयित्वा प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य चतस्त्र औदुम्बरीः समिध आर्द्रा अ[१]प्रच्छिन्नाग्राः प्रादेशमात्रीर्घृता[२]न्वक्ता अभ्याधापयति पृथिवी समिदित्येतैः प्रतिमन्त्रमग्ने व्रतपते व्रतं चरिष्यामीत्येतैर्यथारूपं देवता उपतिष्ठतेऽथैन सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति प्रथमोत्तमयोर्वा ततः संमील्य वाचं यच्छत्यथास्याहतेन वाससा प्रदक्षिण समुख शिरो वेष्टयित्वाऽस्तमिते ग्रामं प्रपादयति वाग्यत एता रात्रिं तिष्ठत्यास्ते वा श्वोभूते प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य वयः सुपर्णा इति मुखं विवेष्ट्य य उदगात्तच्चक्षुरित्यादित्यमुपतिष्ठतेऽथैन षट्तयमभिविदर्शयति सप्ततयमित्येकेऽग्निमादित्यमुदकुम्भमश्मान हिरण्यं वत्सं महानग्न्या सप्तमीं त्रीण्यादितोऽभिविदर्श्योत्तराण्यभिविदर्शयत्यथास्य ब्रह्मचर्यम[३]धि नित्यं न नक्तं भुञ्जीत यदि भुञ्जीतावज्वलितं भुञ्जीत न मृन्मयं प्रतिधयीत न स्त्रिया न शूद्रेण संभाषेत न च्छत्रं नोपानहौ धारयेन्न चक्रीवदारोहेन्न समाजमीक्षेत नापपात्रं न हर्म्याणि न शवं न स्नायान्नाञ्जीत नाभ्यञ्जीत


  1. ग. अच्छि ।
  2. ग. ताभ्यक्ता ।
  3. घ. मभि नि ।