दोषं, दोषा रात्रिस्तस्या अभि पूर्वतने घटिकाद्वयात्मके दिनान्तात्मके काले । प्रविध्य कङ्कतादिना प्रसाध्य । नानुलिप्तो गन्धादिना । न स्रग्वी मालावान् । नाऽऽर्द्रे नानपवृष्ट इत्येतद्द्वयं देशविशेषणम् । अभ्र इति सति सप्तमी । अभ्रे सति नाधीयीतेत्यर्थः । न च्छायायां नाऽऽदित्यानभिसंबद्धे देशे । पर्यावृत्तेऽह्नो मध्यभागात् । हरितग्रहणादितरयवप्रेक्षणे निषेधो न । न ग्राम्यस्य पशोरन्ते नारण्यस्येत्यत्र पशोरन्त इत्यनुवर्तते । उभयत्राधीयीतेति शेषः । द्वितीयनञ्वचनप्रयोजनं न शूद्रेण संभाषेतेत्यत्र यथोक्तं तथाऽत्रापि द्रष्टव्यम् । नाशृतमित्यत्र मांसमिति शेषः। लोहितं रक्तम् । उत्पतितमिति लोहितविशेषणम् । दृष्ट्वेत्युत्तरत्राप्यनुवर्तते । अधीयीतेति शेषः । शरीरशब्देनास्थि । एतद्दर्शनेऽप्यनध्यायः । एतेषां निषेधानां जनरहिते महारण्य एतस्याध्ययनं कर्तव्यमिति फलम् । पराचीनमग्रिममध्ययनप्रदेशम् । प्रथमानुवाकप्रभृति क्रमेण पूर्वत्र संवत्सरे पर्यवेत इत्युपक्रमाद्द्वितीये संवत्सरे प्रथमसंवत्सराधीतानुवाकादीनामुत्तराङ्गभूतमग्न्युपसमाधानादिके श्मश्रुवापनान्ते कृते नानुत्सृष्टाध्यायोऽधीयीतेत्यादि निषेधान्परिपालयन्नग्रिमप्रदेशाध्ययनार्थमग्निमुपसमाधाय संपरिस्तीर्य दर्भेष्वासीनो दर्भान्धारयमाणोऽग्निसमीप एवाग्रिमं प्रदेशमधीयीतेत्यर्थः । दर्भेष्वासीनो दर्भान्धारयमाण इत्यत्र विशेषवचनादत्रैतावदेव, नान्ये केशश्मश्रुवापनान्ताः प्रागुक्ता धर्माः । कल्पान्तरमाह । वरं वा दत्त्वौपासने वरं दत्त्वा वौपासने, औपासनसमीपेऽधीयीत । एतच्च वरदानमोपासनसमीपाध्ययनविषये । [१]वाशब्दस्य वरदानेऽन्वये वरदानस्य वैकल्पिकत्वम् । औपासनपदार्थेऽन्वयो वा वाशब्दस्य । अयं च पक्षो दूरे गन्तुमशक्तस्य । तच्चौपासनं गुरोरेव स्वस्य तदभावात् । अथवाऽत्रौपासनशब्दो ज्ञापनार्थः । उपनयनमारभ्याप्यग्निधारणमस्तीति ।
उक्तं च बौधायनेन--
"उपनयनादिरग्निस्तमौपासनमित्याचक्षते पाणिग्रहणादिरित्येके" इति ।
उपनयनमारभ्य धारणे विवाहहोमस्तत्रैव । अग्नावौपासनत्वसिद्धिद्वारेत्येतस्य विवाहहोमसंकल्पवाक्ये लोपः । उपाकर्मोत्सर्जने अपि तत्रैव । औपासनशब्दो गृहलक्षको वा । अध्येष्यमाणोऽध्ययनं करिष्यमाणोऽन्या वाचोऽध्ययनातिरिक्ता वाचो यावदध्ययनं न वदेत् । अध्येष्यमाणो मदन्तीस्तप्ता अप उपस्पृश्य नमो वाच इति प्रथमेनानुवाकेन शान्तिं कृत्वाऽधीयीत । अधीत्य
- ↑ एतदाद्यशक्तस्येत्यन्तं क. पुस्तक एवाधिकम् ।