चोत्तमेन शं नो वात इत्यनुवाकेन शान्तिं कुर्यात् । प्रपाठकमध्ये विरामेऽप्युत्तमा शान्तिः । उपक्रमे प्रथमा । एवं शान्तिकरणमेतत्प्रपाठकमन्त्रकरणककर्मस्वपि । नन्वेवं कर्मस्विति वचनं प्रवर्ग्यप्रपाठकोक्तमन्त्रसाध्यकर्मसु प्रवर्ग्यसंभरणप्रचारोद्वासनधर्मेष्टकाकुलायिन्युपधानादिषु शान्तिप्रापणार्थम् । न चैवं प्रवर्ग्यप्रचारे पुनर्विधानं व्यर्थमिति चेत्सत्यम् । संभरणोद्वासनादिषु शान्तिकरणस्य कृताकृतत्वद्योतनार्थत्वेन वैयर्थ्याभावात् । यत्र क्व च यत्र कुत्रचिदशान्तिकृतं शान्तिरहितं पश्येत्, शान्तिविरहितं पठितं कर्म वा कृतमिति जानीयात् । तत्र शान्तिं कृत्वा पुनरधीयीत[१] कर्म च कुर्यात्[२] । यद्यशान्तिकृतं पश्येदित्येतावतैव सिद्धे यत्र क्व चेति वचनं परिभाषार्थम् । तेन सर्वारण्यकप्रपाठकाध्ययनविषयेऽपि पुनरध्ययनं तच्छान्तिपूर्वकं सिद्धं भवति । न प्रवर्ग्याय प्रवर्ग्यप्रपाठकाध्ययनार्थं ग्रामाद्बहिरुपनिष्क्रम्याप्रविश्य ग्राममन्यदध्ययनान्तरं नाधीयीतेत्यर्थः । अन्यदधीयीतेत्यस्य द्विरुक्तिः प्रपाठकसमाप्तिद्योतनार्था ।
इति प्रपाठकाध्ययने विशेषः ।
विष्णुः--)"नापररात्रमधीत्य शयीत" इति ।
स्मृत्यन्तरे--
"प्रदोषपश्चिमौ यामौ वेदाभ्यासेन योजयेत् । |
अत्र प्रदोषशब्देनाऽऽद्ययामो ग्राह्यः । पश्चिमशब्देनान्त्यः । उत्तरत्र यामद्वयग्रहणात् ।
गुर्वनुज्ञयैवाध्येयमन्यथा दोष इत्याह व्यासः--
"ऋचमर्धर्चमथवा पादं वा पदमेव वा । |
मनुः--
"नाविस्पष्टमधीयात न शूद्रजनसंनिधौ । |
वेदाध्ययनकाले रजस्वलासंभाषणमवश्यं प्राप्तं भवति चेत्तदा किं कर्तव्यमित्याकाङ्क्षायां धर्मसूत्रे--
"ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्संभाषितुं ब्राह्मणेन संभाष्य |