पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३३१

पुटमेतत् सुपुष्टितम्
[मन्दबुद्धित्वहरं विधानम्]
३२७
संस्काररत्नमाला ।

 मन्त्रस्तु--

"ॐ ओष्ठापिधाना नकुली दन्तैः परिवृता पविः ।
सर्वस्यै वाच ईशाना चारु मामिह वादयेत् " इति ।

 अयमेव मन्त्रो बालामन्त्रेण संयुक्तः कार्यः । तत्राऽऽदावेकं बीजम्, पविरित्यनन्तरं द्वितीयम्, अन्ते तृतीयम् ।

 धारणाभिवृद्ध्यर्थं नमो ब्रह्मण इत्यस्य मन्त्रस्य न्यासपूर्वकं त्रिपुरासिद्धान्ते श्रुतधरीमाहात्म्ये पुरश्चरणमुक्तम् । अस्य मन्त्रस्यानिराकरण ऋषिः । बृहती छन्दः । धारणासरस्वती देवता ।

"सुरासुरैः सेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका ।
विरञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा" इति ध्यानम् ।

 अयमपि मन्त्रो बालामन्त्रेण संयुक्तो जप्तव्यः[१] ( जपितव्यः ), शीघ्रं धारणाप्रदो भवति । तत्राऽऽद्यप्रणवोत्तरं प्रथमं बीजम्, भूयासमित्यनन्तरं द्वितीयम्, अन्त्यप्रणवोत्तरं तृतीयम् । अनेनाभिमन्त्रितं जलं प्राश्नीयात्सारस्वतप्राप्तिः ।

 गीर्वाणैन्द्व्यां तु यश्छन्दसामृषभ इति शीक्षाप्रपाठकस्थमन्त्रस्य लक्षं पुरश्चरणमुक्तम् । कलौ चतुर्गुणं प्रोक्तमितिवचनाच्चतुर्गुणं पुरश्चरणम् । तच्च पञ्चात्मकं त्र्यात्मकं द्व्यात्मकं वेति तान्त्रिकपरिभाषासिद्धम् । विना विशेषवचनं काम्यादिप्रयोगेऽप्येतादृशमेव । यादृशी स्यात्पुरश्चर्या विनियोगोऽपि तादृश इति स्थलविशेषे तन्त्रान्तरे दर्शनात् । प्रकृते विशेषवचनाभावात्पुरश्चरणजपसंख्यैव । अत्र यन्त्रपूजान्यासादिकस्याऽऽकाङ्क्षितत्वेन स्पष्टतया वक्तव्यत्वेऽपि "मन्त्रशास्त्रं गोपनीयम्" इति कुब्जिकातन्त्रवचनादनवस्थाभयाच्चानुक्तिरिति ज्ञेयम् ।

इति मन्दबुद्धित्वहरं विधानम् ।

अथ संक्षेपेणानध्यायाः ।

 तत्रोशना--

"अयने विषुवे चैव शयने बोधने तथा ।
अनध्यायं प्रकुर्वीत मन्वादिषु युगादिषु" इति ।

 अयने दक्षिणायनमुत्तरायणं च यस्मिन्दिने तत्रेत्यर्थः । जात्यभिप्रायं वैकवचनम् । एवं विषुव इत्यत्रापि । विषुवे तुलामेषौ । शयनं हरेः शयनदिनमाषाढशुक्लैकादशी । बोधनं हरेः प्रबोधनदिनं कार्तिकशुक्लैकादशी ।


  1. घ. व्यः । अने ।