पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३३२

पुटमेतत् सुपुष्टितम्
३२८
[अनध्यायाः]
भट्टगोपीनाथदीक्षितविरचिता--

 अयनविषुवप्रयुक्तानध्याये विशेषः स्मृत्यन्तरे--

"निशाद्वयं दिवा रात्रौ संक्रमे वासरद्वयम् ।
अनध्यायं प्रकुर्वीत अयने विषुवे तथा" इति ॥

 दिवाऽयनविषुवसंक्रान्तौ रात्रिद्वयम् । रात्रावयनविषुवसंक्रान्तौ दिनद्वयमनध्याय इत्यर्थः ।

 मन्वादयः संगृहीता हेमाद्रौ--

"तिथ्यग्नी न तिथिस्तिथ्याशे कृष्णेभोऽनलो ग्रहः ।
तिथ्यर्कौ न शिवोऽश्वोऽमातिथी मन्वादयो मधोः" इति ॥

 तिथ्यग्नी । न । तिथिः । तिथ्याशे । कृष्णेभः । अनलः । ग्रहः । तिथ्यर्कौ । न । शिवः । अश्वः । अमातिथी । मन्वादयः । मधोः । इति पदानि ।

 तिथिः पूर्णिमा । अग्निस्तृतीया । मधोश्चैत्रादारभ्य क्रमः । चैत्रस्य पूर्णिमाशुक्लतृतीये इत्यर्थः । न, वैशाखे मन्वादिर्नास्ति । ज्येष्ठस्य तिथिः पूर्णिमा । आषाढस्य तिथ्याशे पूर्णिमाशुक्लदशम्यौ । श्रावणस्य कृष्णेभः कृष्णपक्षाष्टमी। भाद्रशुक्लपक्षस्यानलस्तृतीया । आश्विनशुक्लपक्षस्य ग्रहो नवमी । कार्तिकस्य तिथ्यर्कौ पूर्णिमाशुक्लद्वादश्यौ । न, मार्गशीर्षे मन्वादिर्नास्ति । पौषशुक्लस्य शिव एकादशी । माघशुक्लपक्षस्याश्वः सप्तमी । फाल्गुनस्यामातिथी दर्शपूर्णिमे । एता मधोश्चैत्रादारभ्य क्रमान्मन्वादयो ज्ञेया इत्यर्थः ।

 पद्मपुराणेऽपि--

"अश्वयुक्शुक्लनवमी कार्तिकी द्वादशी सिता ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ।
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता ।
आषाढस्यापि दशमी माघमासस्य सप्तमी ॥
श्रावणस्याष्टमी कृष्णा आषाढस्य च पूर्णिमा ।
कार्तिकी फाल्गुनी चैत्री ज्ये(ज्यै)ष्ठी पञ्चदशी तथा ॥
मन्वन्तरादयश्चैता दत्तस्याक्षयकारिकाः" इति ॥

 अश्वयुगाश्विनः । भाद्रपदस्य चेत्यत्र चकारः सितेत्यस्यानुवृत्त्यर्थः । तथाशब्दो भाद्रपदस्येत्यत्रापि तृतीयान्वयार्थः । आषाढस्यापीत्यत्रापिशब्दः सितेत्यस्यानुवृत्त्यर्थः । अयमपिशब्दो माघमासस्येत्यत्रापि योज्यः । तेनात्रापि सितेत्यस्यानुषङ्गः सिध्यति ।